SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पञ्चमो विभागः १३९ जैसे - ईंधन, जल आदि सामग्री लाने में प्रवृत्त व्यक्ति से पूछने पर वह कहता है- मैं चावल पकाता हूँ । आज भगवान् महावीर का निर्वाण दिन है। यह नवजात शिशु विद्वान् है । न्या. प्र. अस्यायं भावः संकल्पग्राही विचारोऽपि नैगमनयः कथ्यते । - संकल्पश्च कल्पना आरोपो वा । नैगमनयस्य विषयो भावोऽभावश्चेत्युभयमपि भवति । तस्मात् संकल्पग्राही विचारोऽपि - नैगमनय इति कथ्यते । देशकालोपचारलोकरूढिवशात् संकल्प: अनेकप्रकारको भवति । यथा - जलेन्धनादिसामग्रीसमाहरणे प्रवृत्तो जनः किं करोषीति पृष्टे सति उत्तरति ओदनं पचामि इति । नेदानीम् ओदनं निर्मितं किन्तु तन्निर्माणप्रक्रिया प्रचलन्ती वर्तते । तावतापि सः कथयति अहम् ओदनं पचामीति । अत्र अपूर्णक्रियायां पूर्णताया आरोप: कृतो वर्तते । अथवा भविष्यत्कालिकक्रियायां वर्तमानकालिकत्वारोप इति वर्तमान नैगमोऽयम्। यद्यपि भगवतो महावीरस्य निर्वाणदिवस: प्राचीन कालिकः किन्तु यस्मिन् मासे यद्दिने वा जातो निर्वाणः स समयो यदा पुनरायाति तदा कथ्यते अद्य भगवतो महावीरस्य निर्वाणदिवसः । अत्र अतीतेऽपि वर्तमानकालस्यारोप इति भूतनैगमोऽयम् । नवजातोऽयं शिशुर्विद्वान् इति यदा उच्यते यदा नासौ बालो विद्वान् किन्तु स विद्वान् भविष्यति । अनेन प्रकारेण Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy