________________
प्रथम विभागः
भवति तदेव प्रमाणम्। अनेन प्रकारेण संशयविपर्ययानध्यवसायाः प्रमाणकोटौ नायान्ति । एतेषाम् अयथार्थज्ञानानां व्यवच्छेदाय प्रमाणलक्षणे ज्ञानस्य विशेषणं यथार्थमितिपदं दत्तमस्ति। संशयादयस्त्रयो न भजन्ते याथार्थ्यमिति तेषां प्रामाण्यमपि नेति विज्ञेयम् । ज्ञानस्य यथार्थत्वं तु इदमेवास्ति यत् प्रमेयस्य अन्यथा ग्रहणं विपरीतग्रहणं तेन न भवति। अत्र प्रमाणं लक्ष्यमस्ति यथार्थज्ञानत्वं तु तल्लक्षणम् । प्रसिद्धमनूद्य अप्रसिद्ध विधीयते इति नियमात् प्रसिद्ध प्रमाणमुद्दिश्य यथार्थज्ञानत्वं तत्र विधीयते इति भवति तदेव प्रमाणस्य लक्षणम्।
अयथार्थज्ञानस्य कति भेदा इति जिज्ञासायामाह - 11. अयथार्थञ्च विपर्ययसंशयाऽनध्यवसायाः।
अयथार्थ. ज्ञान के तीन भेद हैं-विपर्यय, संशय और अनध्यवसाय। न्या. प्र. - विपर्ययः संशयः अनध्यवसायश्चेति अयथार्थज्ञानस्य त्रयो भेदा भवन्ति । तत्र विपर्ययं लक्षयन् आह -
12. अतत्त्वे तत्ताध्यवसायो विपर्ययः।
यथा-वाष्पयानारुढस्य अगच्छत्स्वपि वृक्षेषु गच्छत्प्रत्ययः, पदार्थो नित्य एव वा अनित्य एव वा। अतत् में तत् का अध्यवसाय करना विपर्यय है। ___जैसे-वाष्पयान में बैठे व्यक्ति को स्थिर वृक्षों में भी गतिशीलता की प्रतीति होती है, यह विपरीतज्ञान है। पदार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org