________________
तृतीयो विभागः
वर्तते तथैव सपक्षे घटादौ विपक्षे नित्ये आकाशादौ च वर्तते एवेति हेतुरयं वर्तते अनैकान्तिकः। अयश्चानैकान्तिकस्य साधारणो भेदः। अपरश्चानैकान्तिक: असाधारणो यः सपक्षात् विपक्षाच्च व्यावृत्तः पक्षमात्रवृत्तिरेव स्यात् केवलम् यथा भूर्नित्या गन्धवत्वात् । अत्र गन्धवत्वं सपक्षान्नित्यात्, विपक्षाच्चानित्यात् व्यावृत्तं भूमात्रवृत्ति अस्ति। इदानीमनुमानस्य स्वार्थं परार्थञ्चेति भेदद्वयस्य व्याख्याप्रसंगे पूर्वं तत्पृष्ठभूमिः प्रस्तूयते । इदमनुमानस्य भेदद्वयं वैदिकन्याये जैनन्याये य समानरूपेण स्वीकृतमस्ति। तत्र स्वार्थानुमानं स्वानुमितिहेतुर्भवति । स्वस्मै इदं स्वार्थम् । इदञ्च ज्ञानात्मकम् अत्र केवलं पक्षस्य साधनस्य च प्रयोगो भवति। पक्षश्च स एव भवति यत्र किञ्चिद् वस्तु सिषाधयिषितं स्यात् । शब्दोऽ नित्यः कार्यत्वात् इति वाक्ये शब्दे अनित्यत्वं साध्यमस्ति इति शब्द एव पक्षः। एवमन्यत्रापि बोध्यम्। साधनं लिङ्गं हेतुश्चेति पर्यायवाचिन: शब्दाः । एषु अन्यतमस्य प्रयोग: साधनवचनं हेतुवचनं वा कथ्यते। येन पुरुषेण महानसादौ धूमे अग्नेप्सिहीता यत्र यत्र धूमस्तत्र अग्निरिति । स एव पुरुषः कदाचित् वनं गतः प्रथमं पर्वते धूमलेखां पश्यति, ततः पूर्वगृहीतां यत्र यत्र धूमस्तत्राग्निरिति व्याप्ति स्मरति तत: अग्निमान् अयं पर्वत इति यद् ज्ञानं तस्य पुरुषस्य भवति तदेतत् स्वार्थानुमानम्। परार्थनुमानं परार्थं भवति। परस्मै इदं परार्थम्। येन परः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org