________________
८८
भिक्षुन्यायकर्णिका
प्रतिपद्यते । यथा कश्चित् धूमादग्निमनुमाय परं जनं बोधयितुं पञ्चावयववाक्यानि प्रयुङ्क्ते तत् परार्थानुमानम् । ते च पञ्चावयवाः सन्ति, प्रतिज्ञा हेतुः उदाहरणम् उपनयः निगमनञ्च। पर्वतो वह्निमान् इति प्रतिज्ञा, धूमवत्वात् इति हेतुः । यो यो धूमवान् स सोऽग्निमान्, यथा महानसम् इति उदाहरणम् तथा चायम् अर्थात् पर्वतोऽपि धूमवानस्ति इति उपनयः, तस्मात् पर्वतोऽयम्-अग्निमान् इति निगमनम् । अनेन पञ्चावयववाक्येन परोऽपि पर्वते अग्निं प्रतिपद्यते । अनया रीत्या परार्थानुमानं वचनात्मकमिति सिद्ध्यति । सर्वमेतत् मनसि निधाय ग्रंथकारः परार्थानुमानं प्रस्तुवन् सूत्रयति
20. वचनात्मकेऽनुमाने दृष्टान्तोपनयनिगमनान्यपि ।
यत्राऽनुमानेन परो बोध्यः स्यात्, तत्र तद् वचनात्मकं भवति । तत्परार्थं, ज्ञानात्मकञ्च स्वार्थम् ।
स्वार्थं पक्षसाधनात्मकं द्वयङ् गमेव, परार्थं तु पञ्चावयवम् । वचनात्मक अनुमान में दृष्टान्त, उपनय और निगमन का भी प्रयोग होता है ।
जहाँ अनुमान का प्रयोग दूसरे के लिए किया जाता है। वहाँ वह वचनात्मक होता है ।
वचनात्मक अनुमान परार्थ होता है और ज्ञानात्मक अनुमान स्वार्थ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org