________________
१८८
भिक्षुन्यायकर्णिका
तदुत्पादस्य चायं क्रमः- सात्मके शरीरे-चैतन्यविशिष्टे शरीरेआहारग्रहणम्, ततः शोणितोत्पत्तिः, श्वासोच्छवासेन तस्य = रक्तस्य अखिले वपुषि सम्पूर्णशरीरे सञ्चारो भवति। तेन सम्पूर्णशरीरे रक्तसञ्चारेण शरीरावयवाः सक्रिया भवन्ति। ततो हि इन्द्रियाणि मनश्च स्वस्वप्रमेयं स्वस्वविषयं गृह्णन्ति। यदि देही आत्मा चैतन्यं वा अन्यत्र याति तदा सर्वत्रैव निष्क्रियत्वमेव दृष्टिपथमायाति। अर्थात् सर्वाणीन्द्रियाणि मनश्च स्वं स्वं विषयं नैव गृह्णन्ति। सति देहिनि चेतने आत्मनि एव आहारग्रहणादेव रक्तोत्पत्तिः। रक्तोत्पत्तेर्मूलं प्राणशक्तिरेव । रक्तस्य या खलु गतिनिरोधो वा भवति सोऽपि प्राणशक्तिमादायैव भवति। अन्यथा यदि प्राणशक्तिं विना रक्तोत्पादः स्यात् तदा रक्तस्य गतिनिरोधौ निर्हेतुको स्याताम्। तस्मादिदमत्रावधेयं यत् चेतने आत्मनि सत्येव रक्तोत्पत्तिश्चेद् तद्रक्तं चैतन्यमूलं कथं भविष्यति? तस्मान्न रक्तं चैतन्यस्य मूलम्। अनया रीत्या आत्मनो हेतूनां निराकरणं विधाय तदस्तित्वे प्रमाणमुपन्यसन् सूत्रयति
8.
प्रेत्यसदभावाच्च। पुनरुत्पत्ति:-प्रेत्यभावः । तेनाप्यात्मनः सत्त्वं प्रतिपत्तव्यम्। आत्मा के अस्तित्व का एक हेतु है- प्रेत्य का सद्भाव।
प्रेत्यभाव का अर्थ है पुनर्जन्म। यह आत्मा की अस्तित्व-सिद्धि का प्रबल हेतु है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org