________________
१९०
भिक्षुन्यायकर्णिका नवजातेऽपि शिशौ स्वशरीरं प्रति विशेषाग्रहः। सत्यां बुभुक्षायां स रोदिति । बुभुक्षायां शान्तिमुपगतायां स प्रसन्नतां व्यनक्ति। नात्र चित्रं यद् दुग्धपानादिकं सर्वं कार्यं शरीराधिष्ठानकं कृत्यम्। अनया रीत्या शरीरं प्रति चैतसिको विशेषाग्रहो दृष्टचर एव। अयञ्चाग्रहस्तद्विषयकपूर्वाभ्यासजनित एवास्ते। पूर्वजन्मनि अपि एतादृशोऽभ्यासः कृत इति पूर्वाभ्यासजनित एवास्मिन्नपि जन्मनि शरीरं प्रति आग्रहो भवति। यस्य वस्तुनो गुणदोषौ ज्ञातौ न स्याताम् तं प्रति न भवति आकर्षणं कस्यापि । शरीरं प्रति आकर्षणं तु भवत्येव नवजातस्य तेन ज्ञायते यत् शरीरस्य गुणदोषौ ज्ञातौ स्त: बालकस्य। अतएव तस्य नवोत्पन्नबालस्य स्वशरीरं प्रति आग्रहो भवति। अयमाग्रह एव पुनर्जन्मनः सद्भावे प्रमाणम्। पूर्वजन्मनि अनेनं कृतोऽभ्यास इति कथं ज्ञायते? शङ्कामिमामुत्तरयन् सूत्रयति
10. हर्षभयशोकोपलब्धिरपि पूर्वाभ्यस्तस्मृत्यनुबन्धा।
जातः खलु बालः पूर्वाभ्यस्तस्मृतिनिमित्तान् हर्षादीन् प्रतिपद्यते। पूर्वाभ्यासश्च पूर्वजन्मनि सति, नान्यथा। हर्ष, भय, शोक आदि की उपलब्धि का निमित्त पूर्वाभ्यास की स्मृति है।
पूर्वाभ्यास की स्मृति के कारण नवजात बालक हर्ष, भय, शोक आदि को प्राप्त होता है। वह पूर्वाभ्यास पूर्वजन्म होने पर ही घटित होता है अन्यथा नहीं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org