SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तृतीयो विभागः ६९ न्या. प्र.- साधयितुमिष्टं सिषाधयिषितम् । यं साधयितुमिच्छा भवति स एव सिषाधयिषितं साध्यं वा कथ्यते। अयमत्र क्रमः- प्रथमं महानसादौ भूयो भूयो धूमं पश्यन् अग्निं पश्यति। तेन भूयो दर्शनेन धूमाग्न्योः स्वाभाविकं सम्बन्धमवधारयतियत्र २ धूमस्तत्र तत्र वह्निरिति। धूमाग्न्योरयं स्वाभाविक: संबंध एव व्याप्तिपदेनापि कथ्यते। अनेन इदं व्यक्तं भवति यत् अग्ने व्याप्तिः धूमे तिष्ठति। अत एव व्याप्त्याश्रयत्वात् धूमो व्याप्यो भवति अग्निश्च व्यापको भवति । व्यासिबलेनैव धूमो वह्निम् अनुमापयति । तत्रानुमितौ क्वचित् धर्मो वह्निः साध्योभवति । यथा यत्र तत्र धूमस्तत्र तत्र वह्निरिति व्याप्तिकाले वह्निरेव साध्यः। अनुमितौ साध्यधर्मविशिष्टो धर्मी अर्थात् साध्यधर्मवह्निविशिष्टो वह्निमान् पर्वत एव साध्यो भवति । वह्निमानयं पर्वत इत्युदाहरणम् । धर्मी एव पक्षो भवति। प्रस्तुत स्थले धर्मी पर्वत एव पक्षः। न्यायदर्शने तु संदिग्धसाध्यवान् पक्षो भवति । यत्र साध्यस्य संदेहः स्यात् स एव पक्षः। यथा पर्वते अविच्छिन्नमूलां धूमरेखां पश्यन् जनः संदिह्यति यत् पर्वतोऽयमग्निमान् न वेति । एतादृशसंदेहस्यास्पदं पर्वत एवेति संदिग्धसाध्यवान् पर्वतः पक्षः। पक्षस्य वचनं कथनमेव प्रतिज्ञा इत्युच्यते। यथा पर्वतो वह्निमान् इति प्रतिज्ञा। अत्र पर्वत रूपस्य पक्षस्य कथनं कृतमस्तीति प्रतिज्ञावाक्यमिदम्। पक्षे यद् विषययिणी प्रतिज्ञा क्रियते तदेव साध्यं भवति । उपरि पर्वतो वह्निमान् इति प्रतिज्ञावाक्ये वह्निरेव साध्यमस्ति। साध्यस्य सिद्धिः ज्ञप्तिर्ज्ञानं वा साधनमन्तरा न भवितुमर्हतीति साधनं लक्षयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy