________________
प्रथम विभागः
ज्ञानेन सह नान्तरीयकतां भजेच्चेत् तद्द्द्वारा ज्ञानस्य प्रामाण्यं वक्तुं शक्यं स्यात् ।
१९
--
इमे च तदेकविषयसंवादकज्ञानान्तरादयश्च स्वतः प्रमाणभूताः । अत एभिः प्रमाण्यनिश्चये नानवस्था- दोषलेशोऽपीति । ज्ञानस्य स्वतः प्रामाण्यस्य परतः प्रामाण्यस्य मूलसूत्रमिदमास्ते यत् - यया सामग्र्या ज्ञानं भवति- उत्पद्यते वा सा एव सामग्री यदि प्रामाण्यमपि ग्राहयति तदा ज्ञानस्य स्वतः प्रामाण्यं वक्तुं शक्यते । ज्ञानग्राहकसामग्रीग्राह्यत्वमेव ज्ञानस्य स्वतः प्रामाण्यं भवति । यदि ज्ञानग्राहक सामग्री भिन्ना, प्रामाण्यग्राहकसामग्री च भिन्ना भवति तत्र ज्ञानस्य परतः प्रामाण्यमिति सुस्थिरः सिद्धान्तः ।
मीमांसादर्शने ज्ञानस्य स्वतः प्रामाण्यमेव स्वीकृतमास्ते । अस्मिन् दर्शने - प्रभाकरः कुमारिलभट्टः मुरारिमिश्रश्चेति त्रयः आचार्याः सन्ति । तत्र प्रभाकरमते ज्ञानं स्वप्रकाशि अर्थात् स्वयं प्रकाशितं भवति । अत्र ज्ञानस्योत्पादकसामग्री एव ज्ञापिकापि भवतीति स्वतः प्रामाण्यमत्र सुस्थिरं तिष्ठति । कुमारिलभट्टानुसारं तु ज्ञानेन वस्तुन उपरि ज्ञातता उत्पद्यते तत्र ज्ञाततालिंगकेनानुमानेन ज्ञानमनुमीयते प्रामाण्यं च तदीयमवगम्यते ।
मुरारिमिश्रानुसारं तु ज्ञानस्य ग्राहकोऽनुव्यवसायः । स एव च तदीयप्रामाण्यस्य च ज्ञापकः । रीत्यानया ज्ञानग्राहक सामग्रीग्राह्यत्वरूपं स्वतः प्रामाण्यं मीमांसकमते सुरक्षितं भवति । उक्तंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org