________________
भिक्षुन्यायकर्णिका
अनभ्यासस्थले अपरिचयस्थितौ वा यद् ज्ञानं जायते तत्तु नव्यतत्त्वविषयकं ज्ञानं स्वपुष्ट्यर्थं प्रमाणान्तरमपेक्षत एव। तत्र तत् सत्यापकं समर्थकं वा प्रमाणान्तरं यधुपलब्धं भवति तदा तस्मिन् पूर्वज्ञाने प्रामाण्यमायाति। एवमेव पूर्वज्ञानस्य बाधकं यदि ज्ञानान्तरं तत्र उपस्थितं न भवति तदापि तद्ज्ञानस्य प्रामाण्यं सुरक्षितमेवतिष्ठति। यथा शुक्तौ रजतज्ञाने उत्तरकालिकं ज्ञानं यदि भवति नेदं रजतमिति तदा अनेन बाधक ज्ञानेन बाधितं पूर्वज्ञानमप्रमाणमेव। रजते रजतत्त्वप्रकारकं ज्ञानं न बाध्यते कदाचित् इति बाधकाभावात् अस्य ज्ञानस्य प्रामाण्यं भवतीति अस्यापि परत एव प्रमाण्यम्। आचार्यों हेमचन्द्रस्तु स्नानपानावगाहनपिपासाद्यर्थक्रियायाः प्रत्यक्षतः साफल्ये जाते तत्र जलज्ञानस्य स्वतः प्रमाण्यमेवेति मन्यते। तत्र स्नानपानादिक्रियाभिः कृती भवति प्रमाता। न पुनः परीक्ष्यते तत्र स्नानपानादिक्रियाः। क्वचिदनभ्यासदशापन्ने प्रत्यक्षेप्रामाण्यं परत एव गृह्यते । अस्य कारणं तु इदमस्ति यत् तत्र यदर्थविषयकं ज्ञानं भवति तस्य अव्यभिचरितत्वं यावन्न निश्चितं भवति तावत्तस्य प्रामाण्यं कथं स्यात् ? तच्चाव्यभिचरितत्त्वं तदा एव ज्ञायते यदा पूर्वज्ञानगृहीतविषयग्राहकं संवादिज्ञानान्तरं भवेत् । एवञ्च संवादकज्ञानान्तराद् पूर्वज्ञानस्य प्रामाण्यम् । अथवा अनभ्यासदशापन्ने प्रत्यक्षे गृहीतो विषयो यदि अर्थक्रियाकारी भवति तदा तस्य प्रामाण्यं वक्तुं शक्यं भवति। अथवा अनभ्यासदशापन्नेन ज्ञानेन गृहीतो विषयोऽर्थो वा यदि तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org