________________
प्रथम विभागः
१७
किन्तु तदीयं प्रामाण्यम् अप्रामाण्यं वा अनुमानेन गृह्यते। तत्र सफलप्रवृत्तिजनकत्वहेतुकानुमानेन ज्ञानस्य प्रामाण्यं गृहीतं भवति। विफलप्रवृत्तिजनकत्वहेतुकानुमानेन तु ज्ञानस्याप्रामाण्यं गृह्यते । यथा जलार्थी जनः क्वचित् सर: गतो जलमुपलभ्य पिपासां शमयति तदासौ ब्रवीति-मदीयं जलज्ञानं प्रमाणम् सफलप्रवृत्तिजनकत्वात् । एवमेव निर्जलस्थाने पिपासया जलबुद्ध या गतस्तत्र जलमनुपलभ्य ब्रवीति मदीयं जलज्ञानमप्रमाणं विफल - प्रवृत्तिजनकत्वात्। एवं रीत्या ज्ञानस्य प्रामाण्यं स्यात् अप्रमाण्यं वा स्यात्उभयमप्येतत् उपर्युक्तरीत्या न्यायदर्शनानुसारं परतः एव भवति। परतः इत्यस्येदं तात्पर्य यत् यया सामग्र्या ज्ञानं गृहीतं भवति तद्भिन्नसामग्री यदि प्रामाण्यं ग्राहयति तदा ज्ञानस्य प्रामाण्यं परत इति वक्तुं शक्यते। अत्र नेदं विस्मर्तव्यं यत् न्यायदर्शनानुसारं ज्ञानमनुव्यवसायेन गृह्यते। तदीयं प्रामाण्यं तु अनुमानेन । यथोक्तमुपरि। आचार्यस्तुलसी तु अभ्यासदशादौ प्रामाण्यनिश्चयः स्वतो भवतीति मनुते । अनभ्यासदशादौ तु प्रमाणान्तरात् संवादकात् बाधकाभावाच्चेति परत एव। . अस्यायंभावः - अभ्यासदशादौ स्वकरतलज्ञाने नापेक्षते प्रमाणान्तरं किमपि इति तत्र ज्ञानस्य स्वतः प्रामाण्यम्। परिचितस्य वस्तुनो ज्ञानं स्वप्रामाण्यार्थं कस्यापि अपेक्षां न करोतीति तस्य स्वतः प्रामाण्यं सुस्थिरमेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org