SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ७४ भिक्षुन्यायकर्णिका न्या. प्र.- स्वभावसहभावक्रमभावा हेतवः स्वस्य भावेन अस्तित्वेन, अभावेन नास्तित्वेन च विधिप्रतिषेधहेतवो भवन्ति। अस्यायं भाव:- स्वभावादयो हेतवः स्वस्य भावेन स्वकीयेन अस्तित्वेन अभावेन– नास्तित्वेन वा अपरस्य–साध्यस्य भावं साधयन्तः विधिहेतवस्तथा अपरस्य-साध्यस्य अभावं - साधयन्तश्च प्रतिषेधहेतवो भवन्ति। एक एव हेतुः स्वकीयेन भावेन साध्यस्य भावम् अभावञ्चेत्युभयमपि साधयति। एवमेव अभावेनाप्यसौ साध्यस्य भावम् अभावञ्चेत्युभयमपि साधयति। यदाऽसौ भावं साधयति तदाऽसौ भावहेतुः यदा चाभावं साधयति तदा पुनरसौ प्रतिषेधहेतुरिति विवेकः। अनेन प्रकारेण हेतोश्चत्वारः प्रकाराः (वर्गाः) भवन्ति। तद्यथा१. भावात्मक: -. विधिसाधक: २. अभावात्मकः - विधिसाधक: ३. भावात्मक:- प्रतिषेधसाधकः ४. अभावात्मकः - प्रतिषेधसाधक: स्वकीयेन भावेन साध्यस्यास्तित्वं साधयन्तो ये विधिहेतवः सन्ति तेषां सप्तभेदाः सन्ति । तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy