________________
परिशिष्ट
२०५ साध्यमनुमीयते। स्वकीयेन भावेन पदार्थान्तरस्य भावं साधयन्तो हेतवो भावेन विधिहेतव इति शब्देन कथ्यन्ते। स्वभावादयो हेतवोऽस्मिन् ग्रन्थे तृतीयविभागे कथिताः सन्ति। तत्र यो हेतुर्भावेन विधिहेतुर्भवति तत्र अविरुद्धस्य व्यापकस्योपलब्धिः साधनं नैव भवति। तात्पर्यमिदं यत् यद् व्यापकं भावात्मकस्य साधनस्याविरोधि भवति तद् व्यापकं तदीयव्याप्यस्य- भावात्मकव्याप्यस्य साधनं ज्ञापकं नैव भवति । यदि ज्ञापयति तादृशं साधनं तदा तदीया व्यापकतैव भज्यते। अत इदमेवात्र स्वीकरणीयं यत् अविरुद्धस्य व्यापकस्योपलब्धिः भावेन विधिहेतौ साधनं नैव भवति। यथा - अस्त्यत्र वृक्षत्वं निम्बात् इत्यत्र वृक्षत्वसाधके निम्बत्वहेतौ साध्ये वृक्षत्वं हेतुः नैव भवति अस्त्यत्र निम्बत्वं वृक्षादित्येवं रूपेण । यतोहि अत्र वृक्षत्वं निम्बत्वस्य निर्णायको नैव भवितुमर्हति। कारणं चास्य इदमेवास्ति यदत्र वृक्षत्वेन निम्बवदाम्रस्यापि ग्रहणं कर्तुं शक्यत एव। एवञ्च निम्बाभावेऽपि साधनस्य वृक्षत्वस्यास्तित्वं सुरक्षितमेवेति कथं भवितुमर्हति अत्र साध्या भावे साधनाभावरूपा व्यतिरेकव्याप्तिः । तस्मान भवितुमर्हति अविरुद्धव्यापकोपलब्धिः साधनं भावेन विधिहेतुसाधने।
2. अभावेन विधिहेतवः (विरुद्धानुपलब्धेः साधनानि)
(क) स्वभावानुपलब्धिरुदाहृता। (ख) विरोधिकारणानुपलब्धि:- विद्यतेऽत्र समाजेऽज्ञानम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org