________________
१७८
भिक्षुन्यायकर्णिका तत्रावग्रहादीनां क्रमिकत्वात् पूर्वं पूर्व प्रमाणं भवति, तथा उत्तरोत्तरं तदीयं फलं भवति। अवग्रहादारभ्य अनुमानं यावत् चलति अयं क्रमः- यथा- अवग्रहः प्रमाणं चेत् ईहा तदीयं फलम्। एवमेव ईहा प्रमाणम् अवायश्च तदीयं फलम्। अवायः प्रमाणम् धारणा च तस्य फलम्, धारणा प्रमाणम् चेत् स्मृतिः तत्फलम्, स्मृतिः प्रमाणं भवति चेत् प्रत्यभिज्ञा तस्याः फलम्,. प्रत्यभिज्ञा प्रमाणं भवति तदा तर्कस्तत्फलम्, तर्क: प्रमाणं भवति तदा अनुमानं तदीयं फलं भवति । अनया रीत्या पूर्वस्य पूर्वस्य प्रमाणत्वम् उत्तरस्य उत्तरस्य च तदीयं फलत्वं व्यक्तं भवति। यस्तर्कोऽनुमानफलको भवति स खलु अन्वयव्यतिरेकनिर्णयात्मकः। साधने सति अग्न्यादिसाधने धूमे सति साध्यस्य अग्नेर्भाव एव अथवा साध्ये अग्नावेव सति साधनस्य धूमस्य भावोऽन्वयः कथ्यते। यथा यत्र धूमः तत्राग्निः । साध्याभावे अग्न्यभावे साधनाभावः-धूमाभावो व्यतिरेकः । अनेन प्रकारेण अन्वयव्यतिरेकनिर्णयानन्तरमेव अविनाभाविना हेतुना जायतेऽनुमानमिति सर्वमेतदनवद्यम्।
इति प्रमेयप्रमितिस्वरूपनिर्णयात्मकः षष्ठो विभागः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org