________________
९८
भिक्षुन्यायकर्णिका 33. सर्वदा तादात्म्यनिवृत्तिरत्यन्तः ।
कालत्रयेऽपि तादवस्थ्याऽभाव इत्यर्थः । अयमनाद्यनन्त:, यथा-चेतने अचेतनस्य। तादात्म्य की सर्वथा निवृत्ति का नाम अत्यन्ताभाव है।
एक वस्तु का स्वरूप दूसरी वस्तु से सर्वदा भिन्न होता है। किसी भी काल में वह उस स्वरूप को प्राप्त नहीं होता, उसका नाम सर्वदा तादात्म्यनिवृत्ति या तद्अवस्था का अभाव है। यह अनादि और अनन्त होता है, जैसे-चेतन में अचेतन का अभाव।
न्या. प्र.- तादात्म्यस्य शाश्वतनिवृत्तिरत्यन्ताभावः। अयमभावः त्रैकालिकः अस्ति। अस्य व्युत्पत्तिः एवं भवतिअन्तम् अभावम् अतीत:- अत्यन्तः सचासौ अभाव: अत्यन्ताभावः। तात्पर्यमिदं यत् यस्याभावस्य कदाचिदपि अभावो न भवेत् स एव अत्यन्ताभावः। यथा-वायौ रूपाभावस्याभाव: कदाचिदपि भवितुं न शक्नोतीति वायौ रूपाभावः अत्यन्ताभावः। एवम् चेतने अचेतनस्याभावः अत्यन्ताभाव एव। अयमभाव: अनादिर नन्तः । उपर्युक्तोदाहरणद्वये स्पष्टमेतत् । अयमभावः सर्वदा तादात्म्य निवृत्तिं ख्यापयति। एकं वस्तु अपरस्मात् वस्तुनः सर्वथा भिन्नं भवति। एकस्य रूपमपरं वस्तु कदापि नाप्नोति। अस्य प्रतीति: नास्तिपदेन भवति। वायौ रूपं नास्तीति उक्त्या प्रतीयतेऽयमभावः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org