________________
२३०
भिक्षुन्यायकर्णिका (ग) उभयविकल:-अपौरुषेयः शब्दः, अमूर्त्तत्वात्
घटवत् । घटे साध्यधर्मो ऽपौरुषेयत्वं साधनधर्मश्चामूर्त्तत्वमुभयमपि नास्तीति उभयविक
लत्वम्। (घ) सन्दिग्धसाध्यः-विवक्षितः पुमान् रागी, वचनात्,
रथ्यापुरुषवत् । रथ्यापुरुषे हि साध्यधर्मो रागः सन्दिग्धः, रागस्याऽ व्यभिचारि लिङ्गादर्श नात्, इति
सन्दिग्धसाध्यत्वम्। (ङ) सन्दिग्धसाधनः-विवक्षितः पुमान् मरणधर्मा, रागात्,
रथ्यापुरुषवत्। रथ्यापुरुषे साधनधर्मो रागः सन्दिग्ध
इति सन्दिग्धसाधनत्वम्। (च) सन्दिग्धोभयः- विवक्षितः पुमान् अल्पज्ञः, रागात्,
रथ्यापुरुषवत् । रथ्यापुरुषेऽल्पज्ञत्वं रागश्चेति उभयमपि सन्दिग्धमिति सन्दिग्धोभयत्वम्। एषु पराशयस्य दुर्बोधत्वाद् अन्वयिनि रथ्यापुरुषे रागाल्पज्ञत्वयोः सत्त्वं सन्दिग्धम्। विपरीतान्वयः- अनित्यः शब्दः, कृतकत्वात्, यदनित्यं तत् कृतकम्, घटवदिति विपरीतान्वयः । प्रसिद्धानुवादेनाऽप्रसिद्धं विधेयम्। अत्र कृतकत्वं हे तुरिति प्रसिद्धम्। अनित्यत्वं तु साध्यत्वाद् अप्रसिद्धम्। अनुवादे प्रसिद्धस्य यच्छ ब्देन अप्रसिद्धस्य च तच्छब्देन निर्देशो युक्तः । अत्र च विपर्यय इति विपरीतान्वयत्वम्। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org