________________
१३४
2.
भिक्षुन्यायकर्णिका
ज्ञानमावश्यकम् । तच्च ज्ञानं नात्र जातमिति नायमप्रमाणमपि किन्तु प्रमाणांश एव ।
इदमत्र विचार्यते यत् अयं घटः इति ज्ञाने रूपवान् घटः, रसवान् घटः इत्यादि यत् नयस्योदाहरणरूपेण प्रस्तूयते तत् साधु असाधु वा ? विचारेऽस्मिन् इदमेव वक्तुं शक्यते यत् रूपवान् घटः स्पर्शवान् घटः इत्येवं रूपेण यद् ज्ञानं जायते तदपि प्रमाणमेव । यतोहि अत्रापि रूपरसादिविशिष्टस्य घटस्य समग्रस्यैव ज्ञानं जायते न तु तदीयं रूपं रसो वा प्रतीयते केवलम् । अत एतादृशो ज्ञानाकारः स्यात् येन नयस्य भानं स्पष्टरूपेण सम्पद्येत । अतः प्रमाणेन गृहीते घटे रूपं पश्यामि, शीतस्पर्शमनुभवामि, सुरभिगन्धं जिघ्रामि इत्येवं रूपेण यदि जायते ज्ञानं तदा शक्यते वक्तुं कथञ्चित् तत्र नयस्य लक्ष्यमिदमिति ।
प्रमाणस्य कार्यमेकदेशद्वारा समग्रोन्मुखं भवति किन्तु नयस्तु समग्रं वस्तु विभज्य अंशविशेषमेव गृह्णाति । अतएव प्रमाणं सकलादेशि नयश्च विकलादेशी चेति प्रसिद्धिः । प्रमाणं चक्षुः द्वारा रूपं पश्यदपि समग्रं घटं विषयं करोति । नयस्तु घटस्य विश्लेषणं कृत्वा तदीयरूपाद्यंशान् ज्ञातुं प्रवर्तते । अयमेव नयप्रमाणयोर्विभेदः ।
इदानीं नयभेदं कर्त्तुमुपक्रमते -
द्रव्यार्थिकः पर्यायार्थिकश्च ।
प्राधान्येन अभेदग्राही द्रव्यार्थिकः भेदग्राही च पर्यायार्थिकः । यावन्तो विचारमार्गास्तावन्तो नया इति नयानामानन्त्येऽपि वर्गीकरणतस्तद्द्द्वैविध्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org