________________
पञ्चमो विभाग:
१३३ बोद्धः अभिप्रायविशेषो नयः। नीयते ज्ञायते येन स नयः। प्रमाणं समग्रभावेन वस्तु जानाति। वस्तुनोंऽशविभाजनं न तदीयं लक्ष्यं किन्तु नयस्तु वस्तुनः अंशमेव गृह्णातिन अंशग्रहणकाले नयः अंशं गृह्णन्नपि वस्तुनः इतरेषाम् अंशानां निराकरणं न करोति । अतएवोक्तं मूले - अनिराकृतेतरांश: न निराकृतो नास्वीकृतः इतरांशो येन स नयः। इतरांशं स्वीकुर्वन् वस्तुनः अंशग्राहक एव नयः । अयं घटः' इत्युक्ते सति रूपरसगन्धादिविशिष्टोऽखण्डो घटो गृह्यते प्रमाणेन। अस्मिन् प्रमाण गृहीतेऽर्थे अंशविभाजनं कृत्वा रूपवान् घटः स्पर्शवान् घटः इत्येवं रूपेण नयः अंशं गृह्णाति। प्रमाणं नयश्चेत्युभावपि ज्ञानात्मकावेव । यदा ज्ञातुर्दृष्टिः सकल ग्रहणस्य भवति तदा तदीयं ज्ञानं प्रमाणमिति कथ्यते। यदा च प्रमाणेन गृहीतस्य वस्तुनः खण्डश: ग्रहणस्य इच्छा भवति तदा अंशग्राही प्रतिपत्तुरभिप्रायो नयो भवति। अनेन प्रकारेण प्रमाणज्ञानं नयोत्पत्तेः भूमिकां रचयतीति शक्यते वक्तुम्। उपर्युक्तविवेचनेनेदं स्पष्टं भवति यत् प्रमाणस्य विषयः अखण्डं वस्तु भवति नयस्य च तदेकदेशः। अस्यां स्थितौ नयः प्रमाणमप्रमाणं वेति विचारे नायं प्रमाणम् अप्रमाणं वा किन्तु प्रमाणांश एव, यथा शरीरस्य एकदेशो न शरीरम्नाप्यशरीरम् किन्तु शरीरांश एव । तथैवात्रापि बोध्यम्। अत्रैवमाशक्यते यत् यदा नयो न प्रमाणं तदासौ अप्रमाणं कथं न? अत्रैवं समाधीयते यत् अभावज्ञाने प्रतियोगिज्ञानं कारणं भवति अतोऽप्रमाणज्ञाने प्रतियोगिनः प्रमाणस्य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org