SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १५२ भिक्षुन्यायकर्णिका ऋजुसूत्रनयात् सूक्ष्मस्तथाल्पविषयः शब्दनयः । ऋजुसूत्रनयः वर्तमानकालिकं पर्यायविशेषं गृह्णाति, किन्तु शब्दनयस्तु वर्तमानकालिके एकस्मिन्नपि पर्याये कालादिभेदात् शब्दभेदं कृत्वा अर्थभेदं स्वीकरोति । बभूव भवति भविष्यति वा राजगृहम् इत्यत्र एकमेव राजगृहं कालादिभेदात् भिन्नं भवतीति प्रसिद्धमेव। अनया रीत्या ऋजुसूत्रनयापेक्षयास्य अल्पविषयत्वं स्पष्टमेव। शब्दसमभिरूढ़नययोर्मध्ये शब्दनयस्य विषयो महान् समभिरूढनयस्य चाल्पीयान् । कथमेतदिति चेदुच्यते - शब्दनयो हि यत्र कालकारकादिभेदेन शब्दस्यार्थो भिन्नतां याति तत्र अर्थभेदेऽपि अभेद एवेति मनुते। समभिरूढ़नयस्तु निर्वचनभेदात् अर्थो भिद्यत इति स्वीकरोति। समभिरूढनयानुसारं भिक्षणं शीलं यस्यासौ भिक्षुः । सम्प्रति स भिक्षणं करोति न वा करोति केवलं शीलवशादसौ भिक्षुः। किन्तु एवंभूतनयानुसारं तु भिक्षणक्रियायां व्याप्त एव जनो भिक्षुशब्देन व्यवहर्तुं शक्यत इति समभिरूढनयापेक्षया एवंभूतनयस्य विषयोऽल्पीयान् । सम्प्रति प्रकारान्तरेण नयभेदं कर्तुं सूत्रमारभते - 17. अपरथापि नयो द्विधा-निश्चयो व्यवहारश्च। प्रकारान्तर से भी नय दो प्रकार का होता है। 1. निश्चय नय, 2. व्यवहार नय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy