________________
पञ्चमो विभागः
न्या. प्र.
-
१५३
प्रकारान्तरेण नयस्य द्वौ भेदौ स्वीकृतौ वर्तेते
निश्चयनयो व्यवहारनयश्च ।
तत्र कोऽयं निश्चयनय: इति चेदुच्यते -
18. तात्त्विकार्थाभ्युपगमपरो निश्चयः ' ।
यथा - पञ्चवर्णो भ्रमरः तच्छरीरस्य बादरस्कन्धत्वेन । तात्त्विक अर्थ का स्वीकार करने वाले विचार को निश्चय नय कहा जाता है ।
जैसे- भौंरा पांच वर्णवाला है, क्योंकि उसका शरीर एक स्थूल स्कन्ध है ।
न्या. प्र.
तात्त्विकस्य वास्तविकस्य अर्थस्य स्वीकर्त्ता विचारो निश्चयनयपदेनोच्यते । यस्मिन् विचारे तात्त्विकार्थस्य स्वीकृतिः स्यात् स विचारो निश्चयनयः ।
यथा भ्रमरः पञ्चवर्णो भवति । इदमेकं वास्तविकं तथ्यम् । भ्रमरस्य पञ्चवर्णत्वे हेतुरस्ति तस्य शरीरस्य स्थूलस्कन्धरूपता । यः स्थूलस्कन्धः (बादर स्कन्ध:) भवति सं पञ्चवर्णवद्भिः पुद्गलै निर्मीयते । तेषु पञ्चवर्णेषु एक एव वर्ण: प्राधान्येन दृष्टिगोचरीभवति । शेषवर्णास्तत्रन्यग्भूता इति नोपलक्ष्यन्ते ते। अनेन प्रकारेण तात्विकार्थप्रतिपादनपरोऽयं निश्चयनयः ।
1. यो बादरस्कन्धः स पञ्चवर्णपुद्गलनिष्पन्नो भवति, तत्र एको वर्णः प्राधान्येन उपलक्ष्यते, शेषाश्च न्यग्भूतत्वान्नोपलक्ष्यन्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org