SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तृतीयो विभागः ७७ रसमासाद्यसामाग्र्यनुमानम्। यया सामग्र्या रसस्तयैव रूपमपीति सहचरहेतुना रसेन रूपानुमानम्। (ग) व्याप्यो विधिहेतु:- अस्त्यत्र वृक्षत्वम् निम्बात्। अत्र निम्बो व्यापकस्य वृक्षस्य व्याप्योऽस्ति । अयं व्याप्यो हेतुः वृक्षस्यास्तित्वं बोधयतीति विधिहेतुरयम्। (घ) पूर्वचरो विधिहेतु:- अद्य सोमवासरः ह्यो रविवारश्रुतेः । अत्र ह्यः अतीतेन रविवासरेण अद्य सोमवासरः इति ज्ञानं जायते। अत्र रविवारः पूर्वचरो विधिहेतुरस्ति। (ङ) उत्तरचरो विधिहेतु:- उत्तरचर: पूर्वचरमनुमापयति । अद्य रविवारः श्वः सोमवारश्रुतेः। सोमवारः रविवारात् उत्तरचरोऽस्ति। अयमुत्तरचरः सोमवारः अद्य वर्तमानस्य रविवारस्य अस्तित्वानुमापक इति विधिहेतुरेव। (च) कार्य विधिहेतुः- सादित्यं नभः आतपात् । आतपं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy