________________
३२
भिक्षुन्यायकर्णिका
पश्चात् अनुमानेन ज्ञायन्ते। यथा कश्चन जलार्थी मनसा जलं चिन्तयति, मन:पर्यायज्ञानी च तच्चिन्तनं स्वकीयमनः पर्यायज्ञानेन ज्ञातवान्। पश्चाच्च जलानयनप्रवृत्तं तं दृष्ट्वा अनुमिनोति-अयं पुरुषो जलं चिन्तयामास इदानीं तदानयनात्। स्यात् कथञ्चित् मतद्वयं परन्तु मन:पर्यायज्ञानस्थले पुरुषद्वयेन अवश्यमेव भाव्यम्। एकस्य मनसि पदार्थाःचिन्त्यमाना भवेयुः पदार्थविषयकाः पर्याया वा समुत्पद्येरन् । अपरस्तु पुरुषः परपुरुषस्य मनसि उत्पन्नान् पदार्थान्-तत् पर्यायान् वा जानीयात्। अत्र आचार्यस्तुलसी तु मनःपर्यायज्ञानेन पौद्गलिकमनसः पर्यायाणां साक्षात्कारो भवतीत्येव मनुते। अमूर्तस्य भावमनसः पर्यायाणां साक्षात्कारो नात्राभिमतः। आचार्यो हेमचन्द्रोऽपि चिन्तनानुगुणान् पर्यायानेव मनःपर्यायज्ञानविषयान् मनुते। अत्र एवमाशंक्यते- यथा क्षायो पशमिकत्वं भवति मन:पर्यायज्ञाने तथैव अवधिज्ञानेऽपि भवति । एवञ्चानयोर्ज्ञानयोः किं पार्थक्यमित्युच्यते-विशुद्धिक्षेत्रस्वामि विषयभेदादनयोर्भेदः। तद्यथा१. अवधिज्ञानी यानि मनोद्रव्याणि जानीते तान्येव
मनोद्रव्याणि मनःपर्यायज्ञानी विशुद्धतराणि जानीते। २. अवधिज्ञानमंगुलस्यासंख्येयभागादिषु भवति आसर्व
लोकात्। मनःपर्यायज्ञानं तु मनुष्यक्षेत्र एव भवति। ३. अवधिज्ञानं संयतस्य असंयतस्य संयतासंयतस्य च
भवति, किन्तु मनःपर्यायज्ञानं तु संयतमनुष्यस्यैव भवति प्रकृष्टचरित्रस्य च।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org