________________
पञ्चमो विभागः
प्रमाणनयैरधिगमः इत्युक्त्यनुसारम् पदार्थावगमे प्रमाणेन सह नयस्यापि वर्तते समुपयोगः। प्रमाणेन गृहीतस्यानन्तधर्मात्मकस्य वस्तुनो विवक्षितधर्मस्य ग्रहणं तथा अन्यधर्माणां निराकरणं न कुर्वाणो विचारो नयः। प्रमाणं यत्र सम्पूर्ण वस्तु गृह्णाति तत्र नयस्तु वस्तुनः अंशमेव गृह्णाति। अतएव प्रमाणं सकलादेशि नयश्च विकलादेशी कथ्यते। सकलादेशः प्रमाणाधीनो विकलादेशश्च नयाधीनः इति सर्वार्थसिद्धेरुक्तिरपि इदमेव तथ्यं प्रकटयति । जैनदर्शनानुसारं प्रत्येकं वस्तु सामान्यविशेषात्मकं भवति। सामान्यविशेषात्मकस्य तात्पर्यमिदं यत् प्रत्येकं वस्तु भेदाभेदात्मकं भवति। अभेदः सामान्यं भेदश्च विशेषः। प्रमाणमभेदग्राहि चेत् नयो विशेषग्राही भवति । अनेनप्रकारेण वक्तुं शक्यते यत् प्रमाणं नयस्यकृते पदार्थान् समुपस्थापयति। नयश्च तत्र अंशं विवेचयति । रीत्यानया नयप्रमाणयोरुपजीव्योपजीवकभावसम्बन्धः। प्रमाणमुपजीवयतीति उपजीव्यं चेत् नयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org