________________
१३०
भिक्षुन्यायकर्णिका
पर्यायार्थिक नये तु यदा पर्यायाणां नानात्वं तदा तत्र अभेदः कथमपि भवितुं नाहतीति अस्मिन् पक्षे अभेदोपचारो भवति। अनेन प्रकारेणानन्तधर्मात्मकस्य वस्तुनो यौगपद्येन प्रतिपादकं वाक्यं सकलादेश इत्युच्यते। अनया रीत्या प्रमाणवाक्यं द्रव्यार्थिकनयदृष्ट्या अभेदवृत्त्या अभेदोपचाराद् वा अनन्तधर्मात्मकवस्तुनः प्रतिपादकं भवति । एतादृशप्रतिपादनं सकलादेश इत्यपि उच्यते। अनन्तधर्मात्मकवस्तुन एकं धर्म यो गृह्णाति स नय इत्युच्यते। एकैकस्य धर्मस्य ग्रहणे तु भेदस्यैव प्राधान्यं तत्र। एवञ्च तत्र भेदप्राधान्याद् अथवा भेदोपचाराद् वा पदार्थानां प्रतिपादनं भवति । भेदोपचारस्यात्र कावश्यकतेति श्रूयताम्-कालादिद्वारा यदा सर्वे धर्माः अभिन्ना भवन्ति तदा तेषां पृथक् -पृथक् कथनं केन प्रकारेण जायेत? अतएव तत्राभेदेऽपि भेदस्योपचारः क्रियते । अनेन प्रकारेण नयदृष्ट्या वस्तु विवेचनं विकलरूपेण भवति। प्रमाणदृष्ट्या तु सकलरूपेणेति प्रमाणदृष्टिः सकलादेशो नयदृष्टिस्तु विकलादेश इति विवेकः। अनेन प्रकारेण सद्वादो नयदृष्टिा भेदं प्रधानं कृत्वा अथवा भेदस्योपचारं वा कृत्वा वस्तुनो धर्मस्य प्रतिपादनं करोति। किन्तु एकस्मिन् क्षणेऽनेकधर्मान् न प्रतिपादयतीति पक्षोऽयं विकलादेश इत्यपि कथ्यते। इति श्रुतस्वरूपनिर्णयात्मकश्चतुर्थो विभागः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org