________________
चतुर्थो विभागः
१२९
परार्थमिति यदुच्यते तत्तु अभेदस्य प्राधान्यात् अभेदोपचाराद् वा भवतीति विज्ञेयम् । इदमत्रास्य स्पष्टीकरणम्वाक्यं द्विविधं-नयवाक्यं प्रमाणवाक्यञ्च। नयवाक्यमेव सद्वाद पदेनाप्यभिधीयते। वस्तु भवति अनेकधर्मात्मकम्। तत्र अखण्डवस्तुन एकस्य धर्मस्य प्रकाशनं करोति सद्वादो नयवाक्यं वा । वस्तु अनन्तधर्मात्मकं भवति । अनन्तधर्मपदेन अस्तित्वं नास्तित्वं चेत्यादयो धर्मा गृह्यन्ते। इमे सर्वे धर्माः काल द्वारा एकस्मिन् धर्मिणि अभेदवृत्त्या अभेदोपचाराद् वा तिष्ठन्ति । अभेदवृत्तेः तात्पर्यमिदं यत् यदा वस्तुनः प्रतिपादनं द्रव्यदृष्ट्या क्रियते तदा पर्यायस्य गौणत्वं भवति द्रव्यस्य च प्राधान्यं भवति। द्रव्यस्य प्राधान्ये तु तस्मिन् द्रव्ये यावन्तो धर्मास्तिष्ठन्ति ते कालादिद्वारा अभेदवृत्या तिष्ठन्ति । यः कालोऽस्तित्वस्य स एव कालोऽन्येषामपि धर्माणां भवति । अस्यां स्थितौ यदा अस्तित्वस्य कथनं क्रियते तदा अस्तिना अभिन्नानां सर्वेषामेवधर्माणां प्रतिपादनं भवति । इदं प्रतिपादनम् अभेदवृत्या प्रतिपादनमित्युच्यते। यदा द्रव्यत्वं गुणीभावं भजते तदा पर्यायस्य प्राधान्यं भवति । पर्यायाणां च नानात्वं ख्यातमेव। तस्मिन् समये कालादिद्वारा भिन्नपर्यायेषु (गुणेषु वा) अभेदोपचारः क्रियते। इदमत्रावधेयं यत् कालादिद्वारा अभेदवृत्तिर्द्रव्यार्थिकनये भवति। अस्येदं कारणं यत् तत्र द्रव्यस्य एकत्वात् तदाश्रया धर्माः कालादिद्वारा अभिन्ना मान्यन्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org