SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २८ भिक्षुन्यायकर्णिका १. अनुगामी २. अननुगामी ३. वर्धमानः ४. हीयमानः ५. प्रतिपाती ६. अप्रतिपाती एषां षण्णां प्रकाराणां विस्तृतं विवेचनम्१. एषु अनुगामिनोऽवधिज्ञानस्य अन्तगतं मध्यगतञ्चेति द्वौ भेदौ। तत्रान्तगतस्य-पुरतः अन्तगतम्, पृष्ठत: अन्तगतम्, पार्श्वतः अन्तगतमिति त्रयो भेदाः। यथा कश्चनपुरुषः प्रदीपं पुरः कृत्वा प्रचलति चेत् तत्र दीपः पुरोभागं प्रकाशयति। तथैव यद् ज्ञानं पुरोवर्तिनः पदार्थान् प्रकाशयति तत् पुरतः अन्तगतमित्युच्यते। पृष्ठतः अन्तगतन्तु तत्र भवति- यथा कश्चन पुरुषः प्रदीपं पृष्ठभागे कृत्वा चलति, तत्र यथा प्रदीपादयः पृष्ठभागं प्रकाशयन्ति तथैव यद् ज्ञानं पृष्ठवर्तिनः पदार्थान् प्रकाशयति तत् पृष्ठतोऽन्तगतमिति कथ्यते। पावतः अन्तगतं तु तथा भवति यथा कश्चन पुरुषः प्रदीपं वामभागे दक्षिणभागे वा कृत्वा चलति, तदा तत्र प्रदीपादिभिः पार्श्वभाग एव प्रकाशितो भवति । एवमेव यद्ज्ञानं पार्श्ववर्तिनः पदार्थान् प्रकाशयति तद् ज्ञानं पार्श्वतः अन्तगतमित्युच्यते। मध्यगतं तु तत्र भवति- यथा कश्चन पुरुषः प्रदीपादिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy