SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ द्वितीयो विभागः मस्तके धृत्वा प्रचलति चेत् तत्र प्रदीपादिभिः चतुर्दिग्वर्तिनः पदार्थाः प्रकाश्यन्ते तथैव यद् ज्ञानं चतुर्दिक्वर्तिनः पदार्थान् प्रकाशयेत् तत् मध्यगतमवधिज्ञानमितिवेदनीयम्। एभिमा॑नः स्वकीयनाम्नोऽनुसारं पुरोवर्तिनः पृष्ठतोवर्तिनः पार्वतोवर्तिनो मध्यवर्तिनश्च संख्येया असंख्येयाश्च पदार्थाः प्रकाश्यन्ते। २. अननुगामिनोऽवधिज्ञानस्य किं स्वरूपमिति जिज्ञासाया मुमुच्यते यत्- यथा कश्चन पुरुषः एकं महत् ज्योतिः कुण्डं निर्माय तत् पार्श्वत: परिक्रमते पश्यति च तदेव ज्योतिः स्थानम्। अन्यत्र गतश्च नावलोकते तत्। अनेनैव प्रकारेण अननुगामि अवधिज्ञानं यस्मिन् क्षेत्रे उत्पद्यते तेनैव क्षेत्रेण सम्बद्धमसम्बद्धं वा संख्येयमसंख्येयं वा योजनपर्यन्तं जानाति पश्यति च । परिवर्तिते क्षेत्रे न पश्यति। ३. वर्धमानमवधिज्ञानम्- इदमवधिज्ञानं तस्यैव पुरुषस्य भवति यः प्रशस्ते अध्यवसाये चरित्रे च वर्तमानः स्यात् । तदीयं चरित्रञ्चापि विशुद्धतरं भवेत्। तस्यैवावधिज्ञानं परितो वर्धमानं भवति। ४. हीयमानमवधिज्ञानम्- यः पुरुषः अप्रशस्तेऽध्यवसाये चरित्रे च वर्तते । यश्च स्वयं संक्लिश्यमानः संक्लिश्यमानचरित्रे च वर्तते तदीयमवधिज्ञानं सर्वतः क्षीयते । इदं क्षीयमाणमवधिज्ञानमेवोच्यते हीयमानमवधिज्ञानमिति । ५. प्रतिपाति अवधिज्ञानम् इदमवधिज्ञानं जघन्यांगुलस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy