SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पञ्चमो विभागः १५७ विचार प्रधानेऽत्र जगति प्रकार त्रयस्य विचार : स्फुटतरोऽस्ति । ज्ञानाश्रयी विचार: अर्थाश्रयी विचारः शब्दाश्रयी विचारश्च । तत्र यो विचारः संकल्पप्रधानो भवति स नैगमनयः। देशकालोपचारादिवशात् संकल्पो नैकधा। यथा ओदनं पक्ष्यमाणः पुरुषः किं करोषीति प्रश्ने उत्तरति-ओदतं पचामीति। अयं भविष्यत् कालिके विषये वर्तमानत्वस्य संकल्पः । अद्य भगवतो महावीरस्य निर्वाणदिवसः इत्यत्र भूतकालेऽपि वर्तमानत्वस्यैव संकल्पः। अनया रीत्या यो विचारः संकल्पप्रधानो भवति स नैगमनयेन बुध्यते। ___ यो नयोऽर्थस्य प्राधान्यं मन्वानः चलति स खलु अर्थाश्रयी विचारः। अत्र अर्थस्य भेदाभेदयोर्मध्ये विचारः क्रियते। संग्रह: ऋजुसूत्रः, व्यवहारश्चेति त्रयो नयाः अर्थाश्रया विचाराः सन्ति। अर्थाश्रितोऽभेदव्यवहारः संग्रह नये अन्तर्भाव्यते। न्यायवैशेषिकयोर्विचारा: व्यवहार नये समाविष्टाः। शब्द मीमांसमानो विचारः शब्दाश्रयी विचार: कथ्यते । शब्दः समभिरूढः एवंभूतश्चेति त्रयः शब्दाश्रयिविचाराः अयमत्रसंक्षेपः - 1. नैगमनयः - संकल्पोपरि आधृतो विचारः 2. संग्रहनयः - समूहापेक्षया जायमानो विचारोऽस्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy