SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ तृतीयो विभागः कृतकत्वे। यत्र २ कृतकत्वं तत्र २ अनित्यत्वम्। एवञ्च कृतकत्वमनित्यत्वस्य व्याप्यो हेतुः। इमं हेतुं पुरस्कृत्य घटस्यापि अनित्यत्वं साध्यत एव। अनया रीत्या घट इत्यन्वयी दृष्टान्तः। अन्वयीदृष्टान्तस्थले साधनस्य सद्भावे साध्यस्य स्थितिरनिवार्या भवति । सति कृतकत्वेऽनित्यत्वमवश्यं भवत्येव। अथ व्यतिरेकी दृष्टान्तः -- मा 24. साध्याभावे साधनाभावनिरूपणं व्यतिरेकी। यन्नानित्यं तन्न कृतकम्, यथा-आकाशम्। साध्य के अभाव में साधन के अभाव का निरूपण करने वाला दृष्टान्त 'व्यतिरेकी दृष्टान्त' कहलाता है। ___ जो अनित्य नहीं होता है, वह कृतक नहीं होता, जैसे आकाश। न्या. प्र.- साध्यस्याभावे साधनस्याभावं प्रस्तुवन् दृष्टान्तो व्यतिरेकी दृष्टान्तः कथ्यते। साध्यं व्यापकं भवति साधनञ्च व्याप्यमिति स्थितिः । अतः साध्याभावे साधनाभावोऽनिवार्यः। प्रस्तुतोदाहरणे आकाशे नित्यत्वमस्ति, अनित्यत्वं नास्ति अर्थात् आकाशेऽनित्यत्वाभावो वर्तते अतस्तत्र कृतकत्वाभावोऽपि सुतरामेवसिद्धः। इदानीमन्वयिदृष्टान्ताभसान् निरूपयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy