________________
पञ्चमो विभागः
१५५
एव नयः कथ्यते। तत्र अंशस्य ग्रहणं-ज्ञानमेव प्रधानं चेत् तदा ज्ञाननय इति शक्यते वक्तुम्। यदि वस्त्वंशं परिज्ञाय तदनुसारिणी क्रियानुष्ठीयते प्राधान्येन तदा क्रियान्वय इति विवेकः।
सम्प्रति नयाभासं निरूपयति -
21.
पक्षीकृतांशादितरांशापलापी नयाभासः' । आर्हतो दृष्टिकोणो' हि सर्वनयसाधारणः । उक्तञ्चउदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः ।
1. देखें परिशिष्ट 1/7 2. बौद्धानामृजुसूत्रतो गतमभूद् वेदान्तिनां संग्रहात्,
सांख्यानां तत् एव नैगमनयाद् योगश्च वैशेषिकः। शब्दाद्वैतविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुवीक्ष्यते॥ अस्यायंभावः - जैन दर्शनं सर्वान् नयान् समानरूपेण स्वीकरोति । तद् यथा - बौद्धानां सिद्धान्तः क्षणिकवादस्यास्ति। स च क्षणिकवादो वर्तमानकालिकपर्यायग्राहिणा ऋजुसूत्रनयेन संगृह्यते । अद्वैतवादिनो वेदान्तिनः सन्ति अभेदवादिनः । तेषाम् अभेदग्राहिणा संग्रहनयेन ग्रहणं कर्तुं शक्यते। सांख्यानामपि ग्रहणमनेनैव नयेन कर्तुं शक्यते।न्यायवैशेषिको संकल्पग्राहिणा नैगमनयेन गृहीतौ भविष्यतः । शब्दाद्वैतवादः शब्दनयेन ग्रहीतुं शक्यते । अनेन प्रकारेण सापेक्षदृष्ट्या स्वीकुर्वत् सर्वान् नयान् जैनदर्शनं सर्वसंग्राहकमस्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org