________________
पञ्चमो विभागः
१४१ सब पर्याय एक हैं, क्योंकि पर्यायत्व की दृष्टि से कोई भिन्न नहीं है। न्या. प्र.- अभेदं गृह्णातीति अभेदग्राही सामान्यग्राही विचारः संग्रहनय इत्युच्यते। अयं संग्रहनयः परापरभेदेन द्विविधः। कोऽयं परः कश्चापर इति जिज्ञासायामिदमवधारणीयं यत् यस्य क्षेत्र विस्तृतं स्यात् स परः। यश्चाल्पक्षेत्रं व्याप्नोति सोऽयमपरः। यथा-विश्वमेकम् सतोऽविशेषात् । तात्पर्यमिदं यत् विश्वस्मिन् जगति यावन्तः पदार्थास्ते सर्वे सत्तावन्तः। अस्तित्वदृष्ट्या तत्र न किमपि पार्थक्यम् । लघुपदार्थः स्यात् महान् वा भवेत् अस्तित्वदृष्ट्या न कश्चन तत्र भेदः। यथा अस्तित्ववान् घटस्तथैव अस्तित्ववान् पर्वतोऽप्यस्ति । विश्वात् परं न किमपि वर्तत इति अस्तित्वदृष्ट्या विश्वस्यैकता प्रतिपादकं विश्वमेकमिति परसामान्यस्य समीचीनमुदाहरणम्। अवान्तरसामान्यं यत् महासामान्यस्य अन्तः सन्निविष्टं भवति तद्ग्राहकोऽपरसंग्रहो भवति। धर्माधर्माकाशकालपुद्गल जीवद्रव्याणां द्रव्यत्वमाधारीकृत्यैक्यं वर्तत एव। द्रव्यत्वस्य सर्वत्र वर्तमानत्वात् । तस्मात् द्रव्यत्वाविशेषात् द्रव्याणामैक्यम् स्पष्टमेव। एवमेव सर्वेषु पर्यायेषु पर्यायत्वरूपधर्मस्य समान रूपेण वर्तमानत्वात् पर्यायाणामैक्यमिति कथनमपरसामान्य ग्राहकं भवत्येव। अधुना व्यवहारनयं प्रस्तुवन् सूत्रं करोति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org