________________
५६
3.
2. मतिश्रुते ।
4.
भिक्षुन्यायकर्णिका
भवतीति परोक्षस्य परसाहाय्यापेक्षत्वमनिवार्यरूपेण भवत्येव । एषैव स्थिति: श्रुतज्ञानेऽपि भवतीति उभयोरनयो: ज्ञानयोः परोक्षत्वमसंदिग्धमेव ।
1.
आचार्य हेमचन्द्रस्तु वैशद्यमवैशद्यञ्चावलम्ब्य ज्ञानस्य (प्रमाणस्य) द्वैविध्यं स्वीचकार । तत्र वैशद्यं स्पष्टरूपमवैशद्यञ्च अनतिस्पष्टमितितदीयोऽभिप्रायः । स्फुटमेतत् । इदानीं परोक्षप्रमाणस्य भेदमाचष्टे
परोक्ष प्रमाण के दो भेद हैं :- 1. मति, 2. श्रुत | परोक्षप्रमाणस्य मतिः श्रुतञ्चेति द्वौ भेदौ भवतः ।
इन्द्रियमनोनिबधनं मतिः' ।
इन्द्रिय और मन के निमित्त से जो ज्ञान होता है वह मति है । तत्र मतिज्ञानम् इन्द्रियमनोनिमित्तं भवति । मनसा युक्तेन इन्द्रियेण प्रतिनियतार्थग्रहणमेव मतिज्ञानमित्युच्यते ।
स्मृति - प्रत्यभिज्ञा- तर्क-अनुमानानि तत्प्रकाराः । स्मृति, प्रत्यभिज्ञा, तर्क और अनुमान -ये मति के प्रकार हैं। अस्य मतिज्ञानस्य स्मृतिः, प्रत्यभिज्ञा, तर्क:, अनुमानञ्चेति चत्वारो भेदा भवन्ति ।
आभिनिबोधिकमप्यस्य पर्यायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org