________________
१८६
भिक्षुन्यायकर्णिका
केनापि । गोमयावृश्चिकोत्पत्तिः ताम्बूले रक्तरङ्गोत्पत्तिर्वा न भवितुमर्हति चैतन्योत्पत्तेदृष्टान्तः, यतोहि गोमयात् केवलं वृश्चिकस्य स्थूलं भौतिकं शरीरमेवोत्पद्यते नतु चैतन्यमपि। एवं ताम्बूले यः खलु रक्तरङ्गः तिरोहितस्तिष्ठति स एव केवलमभिव्यञ्जकद्वाराऽभिव्यज्यते न तु किमपि नवीनं तथ्यं तत्र समुत्पद्यते इति विभावनीयम् । तस्मात् चैतन्यं सत् पदार्थः। तत्तु समुत्पन्नेषु शरीरेषु स्वत एव व्यक्तो भवति । अनेन प्रकारेण भूतात् चैतन्योत्पत्तिरिति भूतचैतन्यवादो निराकृत एव भवति सिद्ध्यति च सर्वथा चैतन्यवादः। चैतन्यादेव जगदुत्पत्तिरभिव्यक्तिर्वेति साधीयान् पक्षः। एवं चैतन्यसत्तायां सिद्धायामपि केचन वदन्ति चैतन्य मस्तिष्कमूलमस्ति। तदेतन्निराकरोति
6. नापि मस्तिष्कमूलम्, मस्तिष्कस्य तु तत्प्रयोगहेतुमात्रत्वात्
चैतन्य का मूल मस्तिष्क नहीं है। मस्तिष्क तो चेतना के प्रयोग का हेतुमात्र है। न्या. प्र.- चैतन्यस्य मूलं मस्तिष्कं नास्ति। किन्तु मस्तिष्कं तु विशिष्टचैतन्यान्वितस्य मनसः प्रयोगस्य साधनमस्ति । मनसः प्रयोगस्थलं नाना । मस्तिष्कद्वारा प्रयोगस्थलं निर्धार्य तत्र प्रवर्तते मनः। एवञ्च मनसः प्रयोजकं मस्तिष्कं कथं चैतन्यस्य मूलं भवितुमर्हति। तस्मात् चैतन्यमेकमतिरिक्तं तत्त्वं यद् भवाद् भवान्तरं गच्छति आगच्छति च । एवं चैतन्यस्य मस्तिष्कमूलकतां निराकृत्य तस्य शोणितमूलकतामपि निराकरोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org