________________
प्रथमोऽध्यायः
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १ ॥
तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥
तन्निसर्गादधिगमाद्वा ॥ ३ ॥ जीवाजीवात्रेवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥ ४ ॥
नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥ ५ ॥
प्रमाणनयैरधिगमः ॥ ६ ॥
निर्देशस्वामित्वसाधनाऽधिकरणस्थितिविधानतः ॥ ७ ॥ सत्संख्याक्षेत्रस्पर्शनकालाऽन्तरभावाऽल्पबहुत्वैश्च ॥ ८ ॥
मतिश्रुताऽवधिमनः पर्यायकेवलानि ज्ञानम् ॥ ९॥
तत् प्रमाणे ॥ १० ॥
औधे परोक्षम् ॥ ११ ॥
प्रत्यक्षमन्यत् ॥ १२ ॥
मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥ १३ ॥ तदिन्द्रियाऽनिन्द्रियनिमित्तम् ॥ १४ ॥
अवग्रहेावायधारणाः ॥ १५ ॥ बहुबहुविधक्षिप्रानिश्रितोसन्दिग्धध्रुवाणां सेतराणाम् ॥ १६ ॥
अर्थस्य ॥ १७ ॥ व्यञ्जनस्याऽवग्रहः ॥ १८ ॥
१. श्राश्रव - हा० 1
२. मन. पर्यय - स० रा० श्लो० ।
३. तत्र आधे - हा० ।
४. हापाय - भा० हा० सि० । अकलंक ने 'अपाय' तथा 'अवाय' दोनों को संगत कहा है ।
५. नि. सृतानुक्तध्रु - स० रा० । - निसृतानुक्तध्रु - श्लो० । - क्षिप्रनिःसृतानुक्तध्रुस- पा० । - प्रानिश्रितानुक्तध्रु- भा० सि वृ० । - श्रितनिश्चितध्रु-सि वृ-पा० ।
Jain Education International
-
१११ -
www
For Private & Personal Use Only
www.jainelibrary.org