________________
ज्योतिष्काः सूर्याचन्द्रमसो' ग्रहनक्षत्रप्रकीर्णताकाश्च ॥ १३ ॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १४ ॥
तत्कृतः कालविभागः ॥ १५ ॥
१२०
बहिरवस्थिताः ॥ १६ ॥ वैमानिकाः ॥ १७ ॥
कल्पोपपन्नाः कल्पातीताश्च ॥ १८ ॥
उपर्युपरि ॥ १९ ॥
सौधर्मेशा नसानत्कुमार माहेन्द्र ब्रह्मलोकलान्तक महाशुक्र सहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्ताऽपराजितेषु सर्वार्थसिद्धे च ॥ २० ॥
५
स्थितिप्रभावसुखद्युतिलेश्या विशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ २१ ॥ गतिशरीरपरिग्रहाभिमानतो होनाः ॥ २२ ॥
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २३ ॥ प्राग्ग्रैवेयकेभ्यः कल्पाः ॥ २४ ॥ ब्रह्मलोकाला लोकान्तिकाः ॥ २५ ॥
सारस्वतादित्यवह्नयरुणगर्दतोयतुषिताव्याबाधर्मरुतोऽरिष्टाच ॥ २६॥
विजयादिषु द्विचरमाः ॥ २७ ॥
१. - सूर्याचन्द्रमसौ - स० रा० इलो० ।
२. - प्रकीर्णकता - स० रा० इलो० ।
३. - ताराश्च - हा० ।
४. - माहेन्द्रब्रह्म ब्रह्मोत्तरलान्तवकापिष्ठशुक्र महा शुक्रशतारसहस्रा - स० रा० श्लो० । श्लो० में सतार पाठ है । दिगम्बर परम्परा के भी प्राचीन ग्रन्थों मे बारह कल्पों का कथन है । देखें -- जैन जगत, वर्ष ४, अंक ६, पृ० २०२; अनेकात, वर्ष ५, अंक १०-११, पृ० ३४२ ॥
५. - सिद्धौ च - स० रा० श्लो० ।
६. टि० में इसके बाद उच्छ्वासाहारवेदनोपपातानुभावतश्च साध्याः सूत्र है ।
७. पीतमिश्र पद्ममिश्र शुक्ललेश्या द्विद्विचतुश्चतुः शेषेष्विति - रा-पा० ।
८. -लया लौका स० रा० श्लो०; सि-पा० ।
९ - व्याबाधारिष्टाइच - स० रा०
टि० १ ।
Jain Education International
For Private
श्लो० । देखे - विवेचन, पृ० १०८,
Personal Use Only
www.jainelibrary.org