________________
रघुवंश महाकाव्ये
अभि० - दिलीप पुत्रोत्पत्तिसमये दिशः प्रसन्ना जाताः, वायुः शीतलः सुखकरो जातः, अग्निरपि प्रदक्षिणाचिः सन् हविराददे । इत्थं सर्व मंगलकरं जातं, यतः तादृशां महापुरुषाणों जन्म लोकहिताय भवति ।
१४
हिन्दी -- बालक के जन्मसमय में चारों दिशाएँ निर्मल हो गई । शीतल मन्द सुगन्ध वायु चलने लगा | अनि दक्षिण दिशा की ओर घूमकर हवन की सामग्री ग्रहण करने लगा । इस प्रकार से सभी शकुन अच्छे-अच्छे हो रहे थे । यह उचित भी है, क्योंकि ऐसे महापुरुषों का जन्म संसार के हित के लिये हा होता है ॥ १४ ॥
after परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ।। १५ ।।
सञ्जीवनी - 'अरिष्टं सूतिकागृहम्' इत्यमरः । सूतिकागृहे शय्यां तल्पं परितोऽभितः । 'अभितः परितः स मया निकषाहाप्रतियोगेऽपि' इति द्वितीया । विसारिणा प्रसृतेन । तुजन्मनः शोभनोत्पत्तेः । 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । तस्य शिशोर्निजेन नैसर्गिकेण वेजसा सहसा इतत्विषः क्षीणकान्तयो निशोथदीपाः अर्धरात्र प्रदीपाः । 'अर्धरात्रनिशोथौ द्वौ' इत्यमरः । आलेख्यसमर्पिताश्चित्रापिंता इव बभूवुः । निशीथशब्दो दीपानां प्रभाधिक्यसंभावनार्थः ॥ १५ ॥ निजेन,
अन्वयः - अरिष्टशय्यां परितः, विसारिणा, सुजन्मनः, तस्य, तेजसा, सहसा, हतत्विषः, निशीथदीपाः, आलेख्यसमर्पिताः इव, बभूवुः । वाच्य०- - हतत्विभिः, निशीथदीपैः, आलेख्यसमर्पितैरिव बभृवे ।
व्याख्या० – अरिष्टे = सूतिकागृहे शय्या = खट्वा इति ताम्, अरिष्टशय्यां । परितः = सर्वतः । विसारिणा = प्रसारिणा । सुष्ठु = शोभनं जन्म = उत्पत्तिर्यस्य स सुजन्मा, तस्य सुजन्मनः, तस्य = - सुदक्षिप्पाबालकस्य, निजेन = स्वकीयेन, तेजसा = भासा, कान्त्येत्यर्थः । सहसा = झटिति | हता = नष्टा, क्षीणा, विड् = कान्तियॆषान्ते हतत्विषः । निशीथे = वर्धरात्रे, दीपाः = प्रदीपाः, इति निशोथदीपाः । आलेख्ये = चित्रे समर्पिताः = लिखिताः, आलेख्यसमर्पिताः, इव = यथा, बभूवुः = जाताः ।
समा०- अरिष्टे शय्या अरिष्टशय्या, ताम् आरिष्टशय्याम् । वि ( विशेषेण ) सरतीति विसारि, तेन विसारिया । सु ( शोभनं ) जन्म यस्य सः सुजन्मा, तस्य सुजन्मनः । निश दीपाः निशोथदीपाः । हता त्विट् येषां ते हतत्विषः । आलेख्ये समर्पिताः आलेख्यसमर्पिताः ।
श्रभि० -- तत्क्षप्पोत्पन्नबालकस्य नैसर्गिकेण तेजसा क्षीणकान्तयः सन्तः सूतिकागृहे स्थापिताः दीपा अर्धरात्रेऽपि चित्रलिखिता इव बभूवुः ।
हिन्दी
-उस भाग्यवान् बालक का स्वाभाविक तेज सौरीगृह में चारों तरफ इतना फैल गया था कि आधी रात के समय में भी घर में रखे दीपों का प्रकाश एकदम क्षीण ( मन्द ) हो गया और वे ऐसे जान पड़ने लगे मानों चित्र में बने हों ॥ १५ ॥