Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
३७८
रघुवंशमहाकाव्ये
खींचने ( उड़ाने ) वाला सुन्दर पंख वाला गरुड़ उन रानियों को आकाश में उड़ाये ले जा रहा है। अर्थात् गरुड़ पर चढ़कर आकाश में अपने को उड़ते भी देखा ॥६॥
बिभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बिनम् ।
पर्युपास्यन्त लदम्या च पद्मव्यजनहस्तया ॥६॥ संजी-बिभ्रत्येति । किंच, स्तनयोरन्तरे मध्ये विलम्बिनं लम्बमानम् । न्यस्यत इति न्यासः । कौस्तुभ एव न्यासस्तम् । पत्या कौतुकान्यस्तम् । कौस्तुभमित्यर्थः । बिभ्रत्या पद्ममेव व्यजनं हस्ते यस्यास्तया लक्ष्म्या पर्युपास्यन्तो. पासिताः ॥६२॥
अन्वयः- च स्तनान्तरविलम्बिन कौस्तुभन्यासं बिभ्रत्या पद्मव्यजनहस्तया लक्ष्म्या पर्युपास्यन्त ।
व्याख्या-च-किश्च स्तनतः कथयत: यौवनोदयमिति स्तनौ । स्तनयोः= कुचयोः अन्तरं मध्यः इति स्तनान्तरं, स्तनान्तरे विलम्बी-लम्बमानस्तं स्तनान्तरविलम्बिनम् । न्यस्यते इति न्यासः । कु-भुवं स्तुम्नातिव्याप्नोति इति कुस्तुभः= विष्णुः, तस्यायं कौस्तुभः मणिः । कौस्तुभः एव न्यासः-उपनिधिः, इति कौस्तुभन्यासस्तं कौस्तुभन्यासं बिभ्रत्या-धारयन्त्या, पद्म कमलम् एव व्यजनं-तालवृन्तकमिति पद्मव्यजनम् पद्मव्यजनं हस्ते-करे यस्याः सा तया पद्मव्यजनहस्तया लक्षयति पश्यति नीतिज्ञमिति लक्ष्मोस्तया लक्ष्म्या श्रिया ताः पर्युपास्यन्त उपासिताः सेविता इत्यर्थः ।
समासः-स्तनयोः अन्तरमिति स्तनान्तरम्, स्तनान्तरे विलम्बी स्तनान्तरविलम्बी, तं स्तनान्तरविलम्बिनम् । कौस्तुभः एव न्यासस्तं कौस्तुभन्यासम् । पद्मम् एव व्यजनमिति पद्मव्यजनं, पद्मव्यजनं हस्ते यस्याः सा तया पद्मव्यजनहस्तया।
हिन्दी-दोनों स्तनों के बीच में लटकने वाली कौस्तुभ मणि रूपी थाती (धरोहर ) को धारण किये हुए, तथा कमल के पंखे को हाथ में लिये लक्ष्मीजी उनकी सेवा कर रही हैं। यह भी स्वप्न में देखा। अर्थात् विष्णु की धरोहर कौस्तुभ को पहने, और कमल के पंखे से तीनों रानियों की सेवा करती हुई लक्ष्मी को स्वप्न में सबने देखा ॥६२।।