________________
पञ्चदशः सर्गः
२७९
हिन्दी-इस प्रकार के विश्वसनीय वचन को सुनकर, वर्ण धर्म के विरुद्ध आचरण को दूर करने की इच्छा वाले राम जी, वेग से चलने के कारण कम्पनरहित ( सीधी निश्चल ) ध्वजा वाले पुष्पक विमान से सब दिशाओं में घूमने लगे । अर्थात् अपराधी व्यक्ति को देखने के लिये सर्वत्र चक्कर लगाने लगे ॥ ४८ ॥
अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् ।
ददर्श कंचिदेश्वाकस्तपस्यन्तमधोमुखम् ॥ ४९ ॥ अथेक्ष्वाकुवंशप्रभव ऐक्ष्वाको रामः । 'कोपधादण्' इत्यणि कृते 'दाण्डिनायन-' इत्यादिनोकारलोपनिपातः । धूमेन पीयमानेनाभिताम्राक्षं वृक्षशाखावलम्बिनमधोमुखं तपस्यन्तं तपश्चरन्तं कंचित्पुरुषं ददर्श ॥
अन्वयः-अथ ऐवाकः धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् अधोमुखं तपस्यन्तं कश्चित् ददर्श। ___ व्याख्या-अथ = अनन्तरम् इवाकोरयमिति ऐक्ष्वाकः = इक्ष्वाकुकुलोत्पन्नः रामः धूमेन = आईन्धनभवेन, पीयमानेन अभिताम्र = ताम्रवणे अक्षिणी = नेत्रे यस्य स धूमाभिताम्राक्षस्तं धूमाभिताम्राक्षं वृक्षस्य = पादपस्य शाखा = वृक्षावयवः इति वृक्षशाखा, तस्याम् अवलम्बी = अवलम्बमानः इति तं वृक्षशाखावलम्बिनम् । शाखति = गगनं व्याप्नोतीति शाखा। अधः = नीचैः मुखम् = आननं यस्य स तम् अधोमुखम् , तपस्यन्तं = तपस्यां कुर्वन्तं कश्चित् = कमपि पुरुषं ददर्श = अवलोकयामास । वृक्षशाखायां पादौ बध्वा, अधस्तात् भूमौ आटॅन्धनेऽग्निं कृत्वा धूमं पिबन् तपस्यन्तं जनं ददशेत्यर्थः ।
समासः-धूमेन अभिताने अक्षिणो यस्य स तं धूमाभिताम्राक्षम्। वृक्षस्य शाखायाम् अवलम्बी तं वृक्षशाखावलम्बिनम् । अधः मुखं यस्य स तम् अधोमुखम् ।
हिन्दी-अनन्तर “दिशाओं में घूमते हुए" इक्ष्वाकुवंशीय राम ने एक वृक्ष की डाल में उलटा लटका हुआ, तथा नीचे जलती आग के धुएँ को पी-पीकर तपस्या करते हुए एक पुरुष को देखा तथा धुआँ पीने से उसकी आँखें लाल हो गई थीं ॥ ४९ ॥
पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः ।
आत्मानं शम्बुकं नाम शूद्रं सुरपदाथिनम् ॥ ५० ॥ राशा नाम चान्वयश्च तौ पृष्टौ नामान्वयौ यस्य स तथोक्तः । धूमं पिबतीति धूमपः । 'सुपि' इति योगविभागात्कप्रत्ययः । स पुरुष आत्मानं सुरपदाथिनं स्वर्गार्थिनम् । अनेन प्रयोजनमपि पृष्ट इति शेयम् । शम्बुकं नाम शूद्रमाचष्ट बभाषे किल ॥
अन्वयः-राशा पृष्टनामान्वयः धूमपः सः आत्मानं सुरपदाथिनं शम्बुकं नाम शूद्रम् आचष्ट किल।