Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे
समासः-अनेकाश्च ताः वनितास्तासां सखा इति अनेकवनितासखः । वैद्यानां यत्नस्तस्य परिभावीति वैद्ययनपरिभावी, तं वैद्ययनपरिभाविनम् ।
हिन्दी--किन्तु राजा अग्निवर्ण अनेक रानियों के होते हुए भी पितरों के ऋण से मुक्त कराने वाली सन्तान को विना देखे ही वैद्यों के प्रयास को व्यर्थ करनेवाले रोग का उसी प्रकार उल्लंघन न कर सके ( रोग को न जीत सके ) जैसे दीपक वायु को नहीं अतिक्रमण कर सकता है । अर्थात् वैद्य रोग को शान्त न कर सके, और राजा पुत्र का मुख देखे विना ही स्वर्ग चले गये ।। ५३ ॥
तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा ।
रोगशान्तिमपदिश्य मन्त्रिणः संभृते शिखिनि. गूढमादधुः ॥ ५४ ॥ पश्चिमऋतुविदान्त्येष्टिविधि न पुरोधसा संगताः समेता मन्त्रिणो गृहोपवन एव गृहाराम एव । 'आरामः स्यादुपवनम्' इत्यमरः। रोगशान्तिमपदिश्य शान्तिकर्म व्यपदिश्य तमग्निवर्ण संभृते समिद्धे शिखिन्यग्नौ गूढमप्रकाशमादधुनिदधुः ॥
अन्वयः-पश्चिम तुविदा पुरोधसा संगताः मन्त्रिणः गृहोपवने एव रोगश न्तिम् अपदिश्य तं सम्भृते शिखिनि गूढम् आदधुः ।
व्याख्या-करोति, क्रियते वा क्रतुः पश्चिमः = अन्तिमश्चासौ ऋतुः = यागः इति पश्चिमक्रतुः = अन्त्येष्टिः तं वेत्ति =जानातीति पश्चिमक्रतुवित्तेन पश्चिमक्रतुविदा=अन्त्येष्टिविधिशेनेत्यर्थः। पुरः = अग्रे धीयते सर्वकार्येष्विति पुरोधाः तेन पुरोधसा = पुरोहितेन संगताः= मिलिताः मन्त्रिणः = अमात्याः गृहस्य = भवनस्य उपवनम् = आरामः तस्मिन् गृहोपवने एवं नत्वन्यत्र रोगस्य = व्याधेः शान्तिः = शमनकर्म त रोगशान्तिम् अपदिश्य = व्याजीकृत्य तम् = अग्निवर्ण सम्भृते = प्रज्वलिते शिखा अस्यास्तीति शिखी तस्मिन् शिखिनि = अग्नौ गूढं = गुप्तम् अप्रकाशम् आदधुः = निदधुः, गूढं अग्निसंस्कारं कृतवन्त इत्यर्थः । ___ समासः–पश्चिमश्चासौ ऋतुरिति पश्चिमक्रतुः तरय वित् , तेन पश्चिमक्रतुविदा । रोगस्य शान्तिः तां रोगशान्तिम् । गृहस्य उपवनमिति गृहोपवनं तस्मिन् गृहोपवने ।
हिन्दी-अन्तिम संस्कार ( अन्त्येष्टि क्रिया ) की विधि के ज्ञाता पुरोहित से मिलकर मंत्रियों ने महल के बगीचे में ही, रोग की शान्ति करने का बहाना करके राजा अग्निवर्ण (के शव) को चुपचाप किसी को विना बताये प्रज्वलित अग्नि में रख दिया अर्थात् अग्निसंस्कार कर दिया ॥ ५४॥
तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी ।
साधुदृष्टशुभगर्मलक्षणा प्रत्यपद्यत नराधिपश्रियम् ॥ ५५ ॥ आशु शीघ्रं कृतः प्रकृतिमुख्यानां पौरजनप्रधानानां संग्रहः संनिपातनं यस्तादृशैस्तैमन्त्रिभिः