Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1372
________________ ४९८ रघुवंशे हानिः= कृशावस्था सा राजयक्ष्मपरिहानिः सा कामयते =विषयानिच्छतीति कामयानः, कामयानस्य = विषयाभिलाषिणः समा= तुल्या या अवस्था=दशा-कालिकी दशा तया कामयानसमवस्थया तुलां सादृश्यम् आययौपाप । कामपीडितस्येव तस्यावस्था जाता। समासः–पाण्डु वदनं यस्यां सा पाण्डुवदना । अल्पानि भूषणानि यस्यां सा अल्पभूषणा । सावलम्ब गमनं यस्यां सा सावलम्बगमना। मृदुः स्वनः यस्यां सा मृदुस्वना । राशः यक्ष्मा राजयक्ष्मा, तेन या परितः हानिरिति सा राजयक्ष्मपरिहानिः। कामयानस्य समा या अवस्था सा कामयानसमवस्था तया कामयानसमवस्थया । हिन्दी-राजा अग्निवर्ण की क्षयरोग से जो क्षीणावस्था हुई, वह विरह से पीड़ित कामिजनों के समान जान पड़ती थी। जिसमें कि राजा का शरीर पीला पड़ गया था। और कमजोरी से मामूली भूषण 'शरीरपर' रह गये थे। तथा दास दासियों का हाथ पकड़कर चलता था। और वाणी मन्द (धीमी ) पड़ गई थी ॥ ५० ॥ व्योम पश्चिमकलास्थितेन्दु वा।पङ्कशेषमिव धर्मपल्वलम् । राज्ञि तत्कुलमभूत्क्षयातुरे वामनार्चिरिव दीपभाजनम् ॥ ५१ ॥ राशि क्षयातुरे सति तत्कुलं रघुकुलं पश्चिमकलायां स्थित इन्दुर्यस्मिस्तत्कलावशिष्टेन्दु व्योम वा व्योमेव । वाशब्द इवार्थे । यथाह दण्डी–'इववद्वायथाशब्दौ' इति । पङ्कशेषं धर्मपल्वलमिव । वामनाचिरल्पशिखं दीपपात्रमिवाभूत् ॥ अन्वयः-राशि क्षयातुरे सति तत्कुलं पश्चिमकलास्थितेन्दु व्योम वा, पशेष धर्मपल्वलम् इव, वामनाचिः दीपभाजनम् इव अभूत् । व्याख्या-राशि =भूपालेऽग्निवणे क्षयेण = राजयक्ष्मणा आतुरः पीडितः इति तस्मिन् क्षयातुरे =क्षयरोगग्रस्ते सति तस्य = राज्ञः कुलं = वंशःइति तत् तत्कुलम् पश्चात् भवा पश्चिमा= अन्त्या चासौ कला= अंशः, इति पश्चिमकला, तस्यां स्थितःवर्तमानः चन्द्रः=इन्दुः यस्मिन् तत् पश्चिमकलास्थितेन्दु व्योम = अन्तरिक्षम् वा=इव अत्र इवार्थे वाशब्दः। पंकः = कर्दमः शेषः= अवशिष्टः यस्मिन् तत् पंकशेषं धर्मस्य =ग्रीष्मस्य पल्वलम् = अल्पसरः इति धर्मपल्वलम् = स्वल्पजलाशयम् , इव = यथा वामना= अल्पाक्षीणा अचिः = शिखा यस्य तत् वामनाचिः दीपस्य = प्रदीपस्य भाजनं = पात्रमिति दीपभाजनम् इव = यथा अभूत् =जातम् ।। समासः—पश्चिमा चासौ कला पश्चिमकला, पश्चिमकलायां स्थितः इन्दुर्यस्मिन् तत् पश्चिमकलास्थितेन्दु। पंकः शेषः यस्मिन् तत् पंकशेषम् । धर्मस्य पल्वलमिति धर्मपल्वलम् । क्षयेण आतुरः क्षयातुरस्तस्मिन् क्षयातुरे । तस्य कुलमिति तत्कुलम् । वामना अर्चिः यस्य तत् वामनाचिः । दीपस्य भाजनमिति दीपभाजनम् । हिन्दी-राजा अग्निवर्ण के क्षयरोग से पीड़ित होनेपर उनका सूर्यकुल ठीक वैसा हो गया, जैसा कि अन्तिम कला के चन्द्रमा से युक्त आकाश हो अर्थात् मास की कृष्णपक्ष की चतुर्दशी के

Loading...

Page Navigation
1 ... 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412