Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1376
________________ रघुवंशे तेषां मुखानि = आननानि तैः उज्झितः = त्यक्तः तेन कनककुम्भमुखोज्झितेन शिशिरेण= शीतलेन वंशस्य = कुलपरम्परानुसारेण सम्पन्नस्य अभिषेकस्य विधिः = विधानं तेन वंशभिषेकविधिना अभिषेकजलेनेत्यर्थः । निर्वापितः = आप्यायितः । शीतलीकृत इत्यर्थः । समासः-तथाविधा स या नरेन्द्रस्य विपत्तिः, इति तथाविधनरेन्द्रविपत्तिस्तया शोकस्तस्मात् तथाविधनरेन्द्रविपत्तिशोकात् । विलोचनानां जलानि तैः विलोचनजलैः । प्रथमम् अभितप्तः प्रथमाभितप्तः। कनकस्य कुम्भाः कनककुम्भास्तेषां मुखानि तैः उज्झितस्तेन कनककुम्भमुखोज्झितेन । वंशस्य अभिषेकस्तस्य विधिस्तेन वंशाभिषेकविधिना । हिन्दी-इस प्रकार की दुःखद राजा की मृत्यु के शोक से ( रोने के कारण) गरम हुए नेत्रों के जल से ( आँसुओं से ) पहले खूब तपा ( गरम हुआ ) उस महारानी का गर्भ, 'फिर' कुल की परम्परा के अनुसार होने वाले अभिषेक के समय सोने के घड़ों के मुखों से छोड़े हुये शीतल जल से ( वह गर्भ ) शीतल हो गया ॥ ५६ ॥ तं भावार्थ प्रसवसमयाकाङ्क्षिणीनां प्रजाना ___ मन्तYढं क्षितिरिव नमोबीजमुष्टिं दधाना । मौलैः साधं स्थविरसचिवहेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरन्याहताज्ञा ॥ ५७ ॥ प्रसवो गर्भमोचनम् । फलं च विवक्षितम् । 'स्यादुत्पादे फले पुष्पे प्रसवो गर्भमाचने' इत्यमरः, तस्य यः समयस्तदाकाङ्क्षिणीनां प्रजानां भावार्थ भावाय । भूतय इत्यर्थः । 'भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु' इति यादवः । क्षितिरन्तगूढं नभोबीजमुष्टिमिव । श्रावणमास्युप्तं बीजमुष्टिं यथा धते तद्वदित्यर्थः। मुष्टिशब्दो द्विलिङ्गः। 'अक्लीबी मुष्टिमुस्तकौ' इति यादवः । अन्तगूढमन्तर्गतं तं गर्भ दधाना हेमसिंहासनस्थाऽव्याहताशा राशी मौलैर्मूले भवैर्मूलादागतैर्वा । आप्तैरित्यर्थः। स्थविरसचिवैर्वृद्धामात्यैः सार्धं भर्तृ राज्यं विधिवद्विध्यहम् । यथाशास्त्रमित्यर्थः । अर्हार्थे वतिप्रत्ययः । अशिषच्छास्ति स्म । 'सतिशास्त्यतिभ्यश्च' इति च्लेरङ् । 'शास इदङ्हलोः' इतीकारः॥ इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये अग्निवर्णशृङ्गारो नामैकोनविंशः सर्गः॥ अन्वयः-प्रसवसमयाकाक्षिणीनां प्रजानां भावार्थ क्षितिः अर्न्तगूढं नभोबीजमुष्टिम् इव अर्न्तगूढं तं दधाना, अव्याहताशा राशी हेमसिंहासनस्था मौलः स्थविरसचिवैः सार्धं भर्तुः राज्यं विधिवत् अशिषत् । व्याख्या–प्रसवस्य = गर्भमोचनस्य, फलस्य च समयः= कालस्तम् आकांक्षन्ति तच्छीलाः प्रसवसमयाकाक्षिण्यस्तासां प्रसवसमयाकाक्षिणीनां "प्रसवो गर्भमोचने। उत्पादे स्यादपत्येऽपि फलेऽपि कुसुमेऽपि च" इति मेदिनी। प्रजानां = प्रकृतीनां जनानामित्यर्थः। भावयति, भवनं

Loading...

Page Navigation
1 ... 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412