Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
एकोनविंशः सर्गः वा भावः भावायेदं भावार्थम् विभूतये = कल्याणार्थमित्यर्थः । 'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु विभूतिबन्धुजन्तुषु ।' इति मेदिनी। क्षितिः पृथिवी अन्तः = अभ्यन्तरे भूमौ गूढं गुप्तमिति अर्न्तगूढं-भूमौ निक्षिप्तमित्यर्थः । विशिष्टा ई =लक्ष्मीर्जायतेऽ. स्मादितिवीजम् । वियं = संवृतं जायते जनयति, वजति बा वीजम् बोजस्य मुष्टिरिति बीजमुष्टिः= अङ्करकारणमुष्टिः । नभसि =श्रावणमासे उप्तः बीजमुष्टिरिति तं नमोबीजमुष्टिम् इव = यथा अन्तः= कुक्षौ गूढः= गुप्तः, इति अन्तर्गुढस्तम् अन्तYढ़-तं गर्भ दधाना = धारयन्ती, सिंहाकारमासनं = पीठम् , हेम्नः= सुवर्णस्य सिंहासनमिति हेमसिंहासनं तत्र तिष्ठतीति-सा हेमसिंहासनस्था न व्याहता=न अवरुद्धा आशा = शासनं यस्याः सा अव्याहताशा राशी = राजपत्नी मूले भवाः, मूलात् आगताः वा मौलास्तैः मौलैः = हितैषिभिः आप्तैरित्यर्थः । तिष्ठन्तीति स्थविराः वृद्धाश्च ते सचिवाः = अमात्यास्तैः स्थविरसचिवैः सार्ध = साकं भर्तुः स्वामिनःअग्निवर्णस्य राज्यं राष्ट्र विधिना तुल्यं विधिवत् = शास्त्रानुसारम् अशिषत् =शासितवती।
समासः-प्रसवस्य समयः प्रसवसमयः प्रसवसमयस्य काङ्क्षिण्यस्तासां प्रसवसमयकाक्षिणीनाम् । बीजस्य मुष्टिः बीजमुष्टिस्तम् । स्थविराश्च ते सचिवास्तैः स्थविरसचिवैः। हेम्नः सिंहासनं तत्रस्था इति हेमसिंहासनस्था। न व्याहता आज्ञा यस्याः सा अव्याहताशा ।
हिन्दी-अन्न रूप फल को चाहनेवाली जनता के कल्याण के लिये जैसे श्रावण में बोये हुए मुट्ठीभर बीज को पृथिवी छिपाए रहती है, उसी प्रकार पुत्रोत्पत्ति की आशा लगाये बैठी प्रजा के कल्याण के लिये अपनी कुक्षि में गर्भ को धारण किये हुये महारानी ने बाधा रहित निर्बाध आशा होकर तथा सोने के सिंहासनपर बैठो परम्परा से आये वृद्धमंत्रियों के साथ विधिपूर्वक अपने पति के राज्य का शासन किया पालन-रक्षण किया ॥५७॥ इति श्रीशांकरिश्रीधारादत्तशास्त्रिमिश्रविरचितायां "छात्रोपयोगिनी" व्याख्यायां रघुवंशे
महाकाव्ये अग्निवर्णशृङ्गारो नामैकोनविंशः सर्गः ॥ शुभम्भूयात् ॥