________________
रघुवंशे
तेषां मुखानि = आननानि तैः उज्झितः = त्यक्तः तेन कनककुम्भमुखोज्झितेन शिशिरेण= शीतलेन वंशस्य = कुलपरम्परानुसारेण सम्पन्नस्य अभिषेकस्य विधिः = विधानं तेन वंशभिषेकविधिना अभिषेकजलेनेत्यर्थः । निर्वापितः = आप्यायितः । शीतलीकृत इत्यर्थः ।
समासः-तथाविधा स या नरेन्द्रस्य विपत्तिः, इति तथाविधनरेन्द्रविपत्तिस्तया शोकस्तस्मात् तथाविधनरेन्द्रविपत्तिशोकात् । विलोचनानां जलानि तैः विलोचनजलैः । प्रथमम् अभितप्तः प्रथमाभितप्तः। कनकस्य कुम्भाः कनककुम्भास्तेषां मुखानि तैः उज्झितस्तेन कनककुम्भमुखोज्झितेन । वंशस्य अभिषेकस्तस्य विधिस्तेन वंशाभिषेकविधिना ।
हिन्दी-इस प्रकार की दुःखद राजा की मृत्यु के शोक से ( रोने के कारण) गरम हुए नेत्रों के जल से ( आँसुओं से ) पहले खूब तपा ( गरम हुआ ) उस महारानी का गर्भ, 'फिर' कुल की परम्परा के अनुसार होने वाले अभिषेक के समय सोने के घड़ों के मुखों से छोड़े हुये शीतल जल से ( वह गर्भ ) शीतल हो गया ॥ ५६ ॥
तं भावार्थ प्रसवसमयाकाङ्क्षिणीनां प्रजाना
___ मन्तYढं क्षितिरिव नमोबीजमुष्टिं दधाना । मौलैः साधं स्थविरसचिवहेमसिंहासनस्था
राज्ञी राज्यं विधिवदशिषद्भर्तुरन्याहताज्ञा ॥ ५७ ॥ प्रसवो गर्भमोचनम् । फलं च विवक्षितम् । 'स्यादुत्पादे फले पुष्पे प्रसवो गर्भमाचने' इत्यमरः, तस्य यः समयस्तदाकाङ्क्षिणीनां प्रजानां भावार्थ भावाय । भूतय इत्यर्थः । 'भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु' इति यादवः । क्षितिरन्तगूढं नभोबीजमुष्टिमिव । श्रावणमास्युप्तं बीजमुष्टिं यथा धते तद्वदित्यर्थः। मुष्टिशब्दो द्विलिङ्गः। 'अक्लीबी मुष्टिमुस्तकौ' इति यादवः । अन्तगूढमन्तर्गतं तं गर्भ दधाना हेमसिंहासनस्थाऽव्याहताशा राशी मौलैर्मूले भवैर्मूलादागतैर्वा । आप्तैरित्यर्थः। स्थविरसचिवैर्वृद्धामात्यैः सार्धं भर्तृ राज्यं विधिवद्विध्यहम् । यथाशास्त्रमित्यर्थः । अर्हार्थे वतिप्रत्ययः । अशिषच्छास्ति स्म । 'सतिशास्त्यतिभ्यश्च' इति च्लेरङ् । 'शास इदङ्हलोः' इतीकारः॥ इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये अग्निवर्णशृङ्गारो
नामैकोनविंशः सर्गः॥ अन्वयः-प्रसवसमयाकाक्षिणीनां प्रजानां भावार्थ क्षितिः अर्न्तगूढं नभोबीजमुष्टिम् इव अर्न्तगूढं तं दधाना, अव्याहताशा राशी हेमसिंहासनस्था मौलः स्थविरसचिवैः सार्धं भर्तुः राज्यं विधिवत् अशिषत् ।
व्याख्या–प्रसवस्य = गर्भमोचनस्य, फलस्य च समयः= कालस्तम् आकांक्षन्ति तच्छीलाः प्रसवसमयाकाक्षिण्यस्तासां प्रसवसमयाकाक्षिणीनां "प्रसवो गर्भमोचने। उत्पादे स्यादपत्येऽपि फलेऽपि कुसुमेऽपि च" इति मेदिनी। प्रजानां = प्रकृतीनां जनानामित्यर्थः। भावयति, भवनं