________________
एकोनविंशः सर्गः
साधु निपुणं दृष्टशुभगर्भलक्षणा परीक्षितशुभगर्भचिह्ना तस्याग्निवर्णस्य सहधर्मचारिणी नराधिपश्रियं प्रत्यपद्यत राजलक्ष्मी प्राप ॥ __ अन्वयः-आशु कृतप्रकृतिमुख्यसंग्रहैः तैः साधु दृष्टशुभगर्भलक्षणा तस्य सहधर्मचारिणी नराधिपश्रियं प्रत्यपद्यत । __व्याख्या-आशु = शीघ्रं प्रकृतिषु =नागरिकज नेषु मुख्याः= प्रधानाः इति प्रकृतिमुख्याः । कृतः=सम्पादितः प्रकृतिमुख्यानां संग्रहः = संग्रहणं-सन्निपातनं यस्तैः कृतप्रकृतिमुख्यसंग्रहैः, तैः = अमात्यैः साधु = सम्यक्-निपुणं गर्भस्य =भ्रूणस्य लक्षणं = चिह्नमिति गर्भलक्षणं, दृष्टं = परीक्ष्य ज्ञातं शुभं = शिवं मंगलकारकं गर्भलक्षणं यस्याः सा दृष्टशुभगर्भलक्षणा तस्य=अग्निवर्णस्य सह = साकं धर्म=दाम्पत्यधर्मं चरति तच्छीला इति सहधर्मचारिणी =धर्मपत्नी नराणाम् अधिपः नराधिपः, नराधिपस्य राज्ञोऽग्निवर्णस्य श्रीः= राज्यलक्ष्मीः तां नराधिपश्रियं प्रत्यपद्यत = प्राप्तवती। ___ समासः-कृतः प्रकृतिषु मुख्यानां संग्रहो यैस्ते तैः कृतप्रकृतिमुख्यसंग्रहैः। दृष्टं शुभस्य गर्भस्य लक्षणं यस्याः सा दृष्टशुभगर्भलक्षण।। सहधर्मस्य चारिणी इति सहधर्मचारिणी। नराणाम् अधिपस्य श्रीः, तां नराधिपश्रियम् ।
हिन्दी-मंत्रियों ने तुरत ही नागरिकों के प्रधानों को इकट्ठा किया और इन्होंने जिस रानी में अच्छी प्रकार परीक्षा करके जान लिया कि इसमें गर्भ के लक्षण दीख रहे हैं, उसी को राजा की लक्ष्मी सौंप दी। अर्थात् राजा को गर्भवती धर्मपत्नी को राज्यासन पर बैठा दिया ॥ ५५ ॥
तस्यास्तथाविधनरेन्द्रविपत्तिशोका
दुष्णैर्विलोचनजलैः प्रथमामितप्तः निर्वापितः कनककुम्भमुखोज्झितेन
वशामिषेकविधिना शिशिरेण गर्मः ॥ ५६ ॥ तथाविधया नरेन्द्रविपत्त्या यः शोकस्तस्मादुष्ण विलोचनजलैः प्रथमाभितप्तस्तस्या गर्भः कनककुम्भानां मुखैर्धारैरुज्झितेन शिशिरेण शीतलेन वंशाभिषेकविधिना लक्षणयाभिषेकजलेन निर्वापित आप्यायितः ॥
अन्वयः-तथाविधनरेन्द्रविपत्तिशोकात् उष्णैः विलोचनजलैः प्रथमाभितप्तः तस्या गर्भः, कनककुम्भमुखोज्झितेन शिशिरेण वंशाभिषेकविधिना निर्वापितः।
व्याख्या-नराणाम् इन्द्रः = स्वामीति नरेन्द्रः नरेन्द्रस्य = राशः अग्निवर्णस्य विपत्तिः = मृत्युः इति नरेन्द्रविपत्तिः तथाविधा पूर्वोक्तप्रकारेण दुःखदा या नरेन्द्रविपत्तिः = = राजमृत्युः, तया यः शोकः = शुक् , इति तथाविधनरेन्द्रविपत्तिशोकस्तस्मात् उष्णैः = धमः विशेषेण लोच्यते एभिस्तानि विलोचनानि, बिलोचनानां = नेत्राणं जलानि अस्राणि तैः विलोचनजलैः, प्रथमम् = पूर्वम् अभितप्तः= सन्तप्तः तस्याः =सहधर्मचारिण्याः अग्निवर्णस्य पत्न्याः इत्यर्थः। गर्भः = उदरस्थजीवः कनति = दीप्यते इति कनकं कनकस्य सुवर्णस्य कुम्भाः = कलशाः