Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
सप्तदशः सर्गः
४१५
अतिथि के पास, वीरों के साथ रहनेवाली ( वीरों की पक्षपातिनी) विजयलक्ष्मी अभिसारिका के समान स्वयं पहुँच जाती थी ॥ ६९ ॥
प्रायः प्रतापभन्नत्वादरीणां तस्य दुर्लभः।
रणो गन्धद्विपस्येव गन्धभिन्नान्यदन्तिनः ॥ ७० ॥ अरीणां सर्वेषामपि प्रतापेनातितेजसैव भग्नत्वात्तस्य राज्ञः। गन्धेन मदगन्धेनैव भिन्ना भग्ना अन्ये दन्तिनो येन तस्य गन्धद्विपस्येव । प्रायः प्रायेण रणो दुर्लभः । खलर्थयोगेऽपि शेषविवक्षायां षष्ठीमिच्छन्तीत्युक्तम् ॥
अन्वयः-अरीणां प्रतापभग्नत्वात् तस्य गन्धभिन्नान्यदन्तितः गन्धद्विपस्य इव प्रायः रणः दुर्लभः । आसोदिति शेषः । ।
व्याख्या-अरीणां - शत्रूणां सर्वेषामपि भग्नस्य भावः भग्नत्वम् प्रतापस्य = तेजसः भग्नत्वं = नाशः तस्मात् प्रतापभन्नत्वात् प्रतापेन = अतिथेः अतितेजसा भग्नत्वात् = राज्ञां गर्वस्य नष्टत्वाद्वा । तस्य = राज्ञः अतिथेः गन्धेन = मदस्यामोदेन एव भिन्नाः = भग्नाः अन्ये = अपरे दन्तिनः= गजाः येन स तस्य गन्धभिन्नान्यदन्तिनः, द्वाभ्यां मुखशुण्डाम्यां पिबतीति द्विपः, गन्धप्रधानः द्विपः गन्धद्विपस्तस्य गन्धद्विपस्य = मदयुक्तगजस्य इव = यथा प्रायः = प्रायशः रणः=संग्रामः दुर्लभः = दुष्प्राप्यः । आसीदिति शेषः ।
समासः-प्रतापेन भग्नत्वं प्रतापभग्नत्वं तस्मात् प्रतापभग्नत्वात् प्रतापस्य भग्नत्वात् प्रतापभग्नत्वात् वा । गन्धः प्रधानः यस्य स गन्धप्रधानः स चासौ द्विपस्तस्य गन्धद्विपस्य। अन्ये च ते दन्तिनः अन्यदन्तिनः, गन्धेन भिन्नाः अन्यदन्तिनः येन स तस्य गन्धभिन्नान्यदन्तिनः ।
हिन्दी-जिस प्रकार मद की गन्धवाले हाथी की गन्ध से ही हारकर भागे, बिना गन्ध वाले हाथी, मदगन्धवाले हाथी से नहीं भिड़ सकते हैं, उसी प्रकार राजा अतिथि के तेज से ही सारे शत्रुओं का प्रभाव नष्ट हो जाने के कारण प्रायः अतिथि का किसी से युद्ध ही नहीं होता था ॥ ७० ॥
प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः ।
स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ॥ ७१ ॥ प्रवृद्धौ सत्यां चन्द्रो हीयते। समुद्रोऽपि तथाविधश्चन्द्रवदेव प्रवृद्धौ हीयते। 'प्रवृद्धः' इति वा पाठः स राजा तु ताभ्यां चन्द्रसमुद्राभ्यां समा वृद्धिर्यस्य स तत्समवृद्धिश्चाभूत् । तौ चन्द्रसमुद्राविव क्षयी। 'जिदृक्षि-' इत्यादिनेनिप्रत्ययः । नाभूत् ॥
अन्वयः-प्रवृद्धौ चन्द्रः हीयते समुद्रः अपि तथाविधः हीयते। सः तु तत्समवृद्धिः अभूत् । तौ इव क्षयी न अभूत् ।
व्याख्या-प्रकर्षेण वृद्धिः प्रवृद्धिः तस्यां प्रवृद्धौ सत्यां, चन्दति = आह्लादयतीति चन्द्र:=