Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1366
________________ ४९२ रघुवंशे वेश्मानि = गृहाणि तेषु गर्भवेश्मसु अर्पिताः = दत्ताः स्तिमिताः = पवनाभावेन निष्कम्पाः दीपाः= प्रदोपाः एव दृष्टयः = नेत्राणि याभिरताः निवातस्तिमितदीपदृष्टयः, अत्र दृष्टीनामनिमिषत्वं व्यज्यते । अन्यानि सुरतानि सुरतान्तराणि, सर्वाणि च तानि सुरतान्तराणि, इति सर्वसुरतान्तराणि, सर्वसुरतान्तराणां = सर्वसम्भोगभेदानां क्षमाः = योग्याः क्रियासमर्था इत्यर्थः। इति सर्वसुरतान्तरक्षमाः, स्वदनिवारकत्वात् , दीर्घरात्रित्वाच्चेति भावः । शशन्ति = धावन्ति यस्मिन् पथिकाः स शिशिरः । शिशिरस्य = माघफाल्गुनमासीयोंः रात्रयः = निशाः इति शिशिररात्रयः, तस्य = अग्निवर्णस्य साक्षिणो भावः साक्षिता तां साक्षितां = साक्षित्वं ययुः = प्रापुः । तासां रात्रीणां सम्भोगक्षमत्वात् दीर्घत्वाच्च यथेच्छं विजहारेत्यर्थः । समासः-निवाताः कुक्षयो येषु तानि तेषु निवातकुक्षिषु । गर्भ वेश्मानीति तेषु गर्भवेश्मसु। अर्पिताः स्तिमिताः दीपाः एव दृष्टयः याभिरताः अपितरितमितदीपवृष्टयः। सर्वेषां सुरतान्तराणां क्षमाः सर्वसुरतान्तरक्षमाः । शिशिरस्य रात्रयः शिशिररात्रयः । हिन्दी-सर्व प्रकार की सम्भोगक्रीड़ा करने के योग्य शिशिर ऋतु की बड़ी-बड़ी लम्बी रातों में राजा अग्निवर्ण, महलों के वायुरहित गर्भ गृहों में ( भीतरी कमरों में ) विहार करता था। वे शिशिर ऋतु की रातें ही, निश्चल दीप रूपी आँखों से देखने वाली, ( अर्थात् एक टक देखती हुई ) उसकी साक्षी रहती थीं। अर्थात् लम्बी रातों में तथा खूब एकान्त में वह मनमाना विहार करता था ॥ ४२ ॥ दक्षिणेन पवनेन संभृत प्रेक्ष्य चूतकुसुमं सपल्लवम् । अन्वनैपुरवधूतविग्रहास्तं दुरत्सहवियोगमङ्गनाः ॥ ४३ ॥ अङ्गना दक्षिणेन पवने न मलयानिलेन संभृतं जनितं सपल्लवं चूत प्रेक्ष्यावधूतविनहास्त्यक्तविरोधाः सत्यो दुरुत्सहवियोगं दुःसहविरहं तमन्वनैषुः। तद्विरहमसहमानाः स्वयमेवानुनीतवत्य इत्यर्थः ॥ अन्वयः-अंगनाः दक्षिणेन पवनेन सम्भृतं सपल्लवं चूतवुसुमं प्रेक्ष्य, अवधूतविर हाः 'सत्यः' दुरुत्सहवियोगं तम् अन्वनैषुः । ___ व्याख्या-प्रशस्तानि अंगानि यासां ताः अङ्गनाः स्त्रियः दक्षिणेन=दक्षिणदिग्भवेन पुनातीति पवनस्तेन पवनेन = वायुना = मलयमरुता, इत्यर्थः। संभृतं = जनितं पल्लवैः= किसलयः सहितमिति सपल्लवं चूष्यन्ते स्म इति चूताः, च्योतन्ति रसमिति वा चूताः, चूतानां = रसालानाम्-आम्राणामित्यर्थः कुसुमं = पुष्पमिति चूतकुसुमं तत् प्रेक्ष्य =अवलोक्य, अवधूतः= तिरस्कृतः परित्यक्तः इत्यर्थः। विग्रहः = विरोधः-प्रणयकलहः याभिरताः अवधूतविग्रहाः सत्यः दुःखेन उत्सहः दुरुत्सहः = सोढुमशक्यः वियोगः= विरहः यस्य स तम् दुरुत्सहवियोगं तम् = अग्निवर्णम् अन्वनेषुः = अनुनीतवत्यः । अग्निवर्णस्य स्वप्रियन्य वियोगमसहमानाः ताः स्त्रियः स्वत एवानुनयं कृत्वा तं प्रसन्नयन्ति स्मेति भावः । समासः-चूतानां कुसुममिति चू तकुसुमं तत् । पहलवैः सहितमिति सपत्लवम् तत् । अवधूतः विग्रहः याभिस्ताः अवधूतविग्रहाः। दुःखेन उत्सहः वियोगः यस्य स तं दुरसहवियोगम् ।

Loading...

Page Navigation
1 ... 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412