________________
४९२
रघुवंशे वेश्मानि = गृहाणि तेषु गर्भवेश्मसु अर्पिताः = दत्ताः स्तिमिताः = पवनाभावेन निष्कम्पाः दीपाः= प्रदोपाः एव दृष्टयः = नेत्राणि याभिरताः निवातस्तिमितदीपदृष्टयः, अत्र दृष्टीनामनिमिषत्वं व्यज्यते । अन्यानि सुरतानि सुरतान्तराणि, सर्वाणि च तानि सुरतान्तराणि, इति सर्वसुरतान्तराणि, सर्वसुरतान्तराणां = सर्वसम्भोगभेदानां क्षमाः = योग्याः क्रियासमर्था इत्यर्थः। इति सर्वसुरतान्तरक्षमाः, स्वदनिवारकत्वात् , दीर्घरात्रित्वाच्चेति भावः । शशन्ति = धावन्ति यस्मिन् पथिकाः स शिशिरः । शिशिरस्य = माघफाल्गुनमासीयोंः रात्रयः = निशाः इति शिशिररात्रयः, तस्य = अग्निवर्णस्य साक्षिणो भावः साक्षिता तां साक्षितां = साक्षित्वं ययुः = प्रापुः । तासां रात्रीणां सम्भोगक्षमत्वात् दीर्घत्वाच्च यथेच्छं विजहारेत्यर्थः ।
समासः-निवाताः कुक्षयो येषु तानि तेषु निवातकुक्षिषु । गर्भ वेश्मानीति तेषु गर्भवेश्मसु। अर्पिताः स्तिमिताः दीपाः एव दृष्टयः याभिरताः अपितरितमितदीपवृष्टयः। सर्वेषां सुरतान्तराणां क्षमाः सर्वसुरतान्तरक्षमाः । शिशिरस्य रात्रयः शिशिररात्रयः ।
हिन्दी-सर्व प्रकार की सम्भोगक्रीड़ा करने के योग्य शिशिर ऋतु की बड़ी-बड़ी लम्बी रातों में राजा अग्निवर्ण, महलों के वायुरहित गर्भ गृहों में ( भीतरी कमरों में ) विहार करता था। वे शिशिर ऋतु की रातें ही, निश्चल दीप रूपी आँखों से देखने वाली, ( अर्थात् एक टक देखती हुई ) उसकी साक्षी रहती थीं। अर्थात् लम्बी रातों में तथा खूब एकान्त में वह मनमाना विहार करता था ॥ ४२ ॥
दक्षिणेन पवनेन संभृत प्रेक्ष्य चूतकुसुमं सपल्लवम् ।
अन्वनैपुरवधूतविग्रहास्तं दुरत्सहवियोगमङ्गनाः ॥ ४३ ॥ अङ्गना दक्षिणेन पवने न मलयानिलेन संभृतं जनितं सपल्लवं चूत प्रेक्ष्यावधूतविनहास्त्यक्तविरोधाः सत्यो दुरुत्सहवियोगं दुःसहविरहं तमन्वनैषुः। तद्विरहमसहमानाः स्वयमेवानुनीतवत्य इत्यर्थः ॥
अन्वयः-अंगनाः दक्षिणेन पवनेन सम्भृतं सपल्लवं चूतवुसुमं प्रेक्ष्य, अवधूतविर हाः 'सत्यः' दुरुत्सहवियोगं तम् अन्वनैषुः । ___ व्याख्या-प्रशस्तानि अंगानि यासां ताः अङ्गनाः स्त्रियः दक्षिणेन=दक्षिणदिग्भवेन पुनातीति पवनस्तेन पवनेन = वायुना = मलयमरुता, इत्यर्थः। संभृतं = जनितं पल्लवैः= किसलयः सहितमिति सपल्लवं चूष्यन्ते स्म इति चूताः, च्योतन्ति रसमिति वा चूताः, चूतानां = रसालानाम्-आम्राणामित्यर्थः कुसुमं = पुष्पमिति चूतकुसुमं तत् प्रेक्ष्य =अवलोक्य, अवधूतः= तिरस्कृतः परित्यक्तः इत्यर्थः। विग्रहः = विरोधः-प्रणयकलहः याभिरताः अवधूतविग्रहाः सत्यः दुःखेन उत्सहः दुरुत्सहः = सोढुमशक्यः वियोगः= विरहः यस्य स तम् दुरुत्सहवियोगं तम् = अग्निवर्णम् अन्वनेषुः = अनुनीतवत्यः । अग्निवर्णस्य स्वप्रियन्य वियोगमसहमानाः ताः स्त्रियः स्वत एवानुनयं कृत्वा तं प्रसन्नयन्ति स्मेति भावः ।
समासः-चूतानां कुसुममिति चू तकुसुमं तत् । पहलवैः सहितमिति सपत्लवम् तत् । अवधूतः विग्रहः याभिस्ताः अवधूतविग्रहाः। दुःखेन उत्सहः वियोगः यस्य स तं दुरसहवियोगम् ।