________________
एकोनविंशः सर्गः
४९३
हिन्दी-"और वसन्त में" दक्षिगी वायु ( मलयगिरि के पवन ) से उत्पन्न कोंपल ( कोमल लाल रंगवाले ) पत्तों के साथ आमों के पुष्प (बौर ) को देखकर राजा की प्रोमकाओं ने रूठने को त्यागकर उसे स्वयं मना लिया। क्योंकि-राजा का वियोग उन्हें बड़ा ही कष्टदायक था। अतः मान छोड़कर विरह व्याकुल वे स्वयं उसके पास चली जाती थीं ॥ ४३॥
ताः स्वमङ्कमधिरोप्य दोलया प्रेतयन्परिजनापविद्धया।
मुक्तरन्जु निबिड भयच्छलात्कण्ठबन्धनमवाप बाहुभिः ॥ ४४ ॥ ता अङ्गनाः स्वमङ्क स्वकोयमुत्सङ्गमधिरोप्य परिजनेनापविद्धया संप्रेषितया दोलया मुक्तरज्जु त्यक्तदोलासूत्रं यथा तथा प्रेतयंश्चालयन्भयच्छलात्पतनभयमिषाद् बाहुभिरङ्गनाभुजैनिबिडं कण्ठबन्धनमवाप प्राप। स्वयंग्रहाश्लेषसुखमन्वभूदित्यर्थः ॥
अन्वयः–ताः स्वम् अङ्कम् अधिरोप्य परिजनापविद्धया दोलया मुक्तरज्जु 'यथा तथा' प्रेखयन् भयच्छलात् बाहुभिः निबिडं कण्ठबन्धनम् अवाप ।
व्याख्या-ताःप्रेयसीः अङ्गनाः स्वं स्वकीयम् अङ्कम् = उत्संगम् अधिरोप्य = सन्निवेश्य परिजनेन =दासीवर्गेण अपविद्धा = चालिता इति तया परिजनापविद्धया-दासीजनसम्प्रेषितया दोलयतोति दोला तया दोलया = प्रेखया मुक्ता = त्यक्ता रज्जुः=दोलागुणः यस्मिन् कर्मणि तत् मुक्तरज्जु यथा स्यात्तथा खयन् = सञ्चालयन् भयस्य = भोतेः पतनात् भयस्येत्यर्थः । छलं व्याजः तस्मात् भयच्छलात् बाहुभिः= भुजैः नितरां विडति=संहन्यते, इति निविडं = दृढं कण्ठे= गले बन्धनमिति कण्ठबन्धनं = कण्ठे आलिंगनपाशमित्यर्थः अवाप-प्राप । अङ्गनाभिः स्वयंग्रहाश्लेषानन्दम् अन्वभवदित्यर्थः ।
समासः-परिजनेन अपविद्धा तया परिजनापविद्धया। मुक्ता रज्जुः, यस्मिन् कर्मणि तत् मुक्तरज्जु । भयस्य छलं तस्मात् भयच्छलात् । कण्ठे बन्धनमिति कण्ठबन्धनम् , तत् ।
हिन्दी-उन स्त्रियों को अपनी गोद में बैठाकर, सेवकों के द्वारा झुलाये गये झूले से, झूलते हुए राजा ने ऐसा झटका दिया कि झूले को रस्सी को छोड़कर गिर पड़ने के डर से (स्त्रियों की ) भुजाओं के दृढ़ कण्ठबन्धन को पा लिया। अर्थात् स्त्रियों ने उसके गले में भुजाएँ डालकर आलिंगन पाश में बाँध लिया ॥ ४४ ॥
तं पयोधरनिषिक्तचन्दनैमौक्तिकग्रथितचारुभूषणैः ।
ग्रीष्मवेषविधिमिः सिषेविरे श्रोणिलम्बिमणिमेखले: प्रियाः ॥ ४५ ॥ प्रियाः पयोधरेषु स्तनेषु निषिक्तमुक्षितं चन्दनं येषु तैः। मौक्तिकैर्यथितानि प्रोतानि चारुभूषणानि येषु तैः । मुक्तापायाभरणैरित्यर्थः। श्रोणिलम्बिन्यो मणिमेखला मरकतादिमणियुक्तकटिसूत्राणि येषु तादृशैष्मिवेषविधिभिरुष्णकालोचितनेपथ्यविधानैः । शीतलोपायरित्यर्थः । तमग्निवर्ण सिषेविरे ॥
अन्वयः-प्रियाः पयोधरनिषिक्तचन्दनैः मौक्तिकग्रथितचारुभूषणैः श्रोणिलम्बिमणिमेखलैः ग्रीष्मवेषविधिभिः तं सिषेविरे ।