Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1369
________________ एकोनविंशः सर्गः ४९५ समासः-लग्नः सहकारः यस्मिन स तं लग्नसहकारम् । रक्तश्चासौ पाटल: रक्तपाटलः, तस्य समागमः यस्य स तं रक्तपाटलसमागमम् । मधोः निर्गमस्तस्मात् मधुनिर्गमात् । चित्तं योनि यस्य स चित्तयोनिः । . हिन्दी-राजा अग्निवर्ण, ने आम के नए पल्लव कोमल पत्ते और लाल गुलाब के फूल ( या पाढर के अथवा लोध्र के फूल ) जिसमें पड़े थे, ऐसी मोरा देश की बनी अंगूरी शराब जो पी, तो उसके पीने से वसन्त ऋतु बीत जाने से कमजोर पड़ा हुआ उसका काम ( सम्भोग शक्ति ) फिर से भड़क उठा ॥ ४६ ॥ एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः । आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः ॥ ४७ ॥ एवमनङ्गवाहितः कामप्रेरितोऽन्यकार्यविमुखः स पार्थिव इन्द्रियाणां सुखानि सुखकराणि शब्दादीनि निर्विशन्ननुभवन्नात्मनो लक्षणः कुटजस्रग्धारणादिचिह्ननिवेदितान् । अयमृतुरिदानी वर्तत इति ज्ञापितान् । ऋतून्वर्षादीनत्यवाहयदगमयत् । अन्वयः-एवम् अनंगवाहितः अन्यकार्यविमुखः सः पार्थिवः इन्द्रियसुखानि निर्विशन् आत्मलक्षणनिवेदितान् ऋतून् अत्यवाहयत् । ___ व्याख्या एवं = पूर्वोक्तप्रकारेण नास्ति अङ्गं = शरीरमस्येति, न अङ्गं =शानमस्मावति अनंगः अनंगेन मनोभवेन वाहितः = प्रेरितः इति अनंगवाहितः अन्यानि =सम्भोगातिरिक्तानि च यानि कार्याणि =राज्यकार्याणि इति अन्यकार्याणि, तेभ्यः विमुखः = पराङ्मुखः इति अन्यकार्यविमुखः सः =अग्निवर्णः पृथिव्याः ईश्वरः पार्थिवः=राजा इन्द्रस्य = आत्मनः लिंगानि = चिह्नानि, इति इन्द्रियाणि, इन्द्रियाणां = चक्षुरादीनां सुखानि = सुखकराणि = रूपरसादीनि, इति इन्द्रियसुखानि, भोगानित्यर्थः । निर्विशन् = अनुभवन् आत्मनः= स्वस्य लिंगानि = चिह्नानि = तत्तदृतूद्भवपुष्पमालादिचिह्नानीत्यर्थः तैः निवेदिताः=विज्ञापितास्तान् आत्मलक्षणनिवेदितान् ऋतून् = वर्षादीन् षट् अत्यवाहयत् = अत्यकामयत्, अतिवाहितवानित्यर्थः । __समासः-इन्द्रियाणां सुखानीति इन्द्रियसुखानि तानि। अनंगेन वाहितः अनंगवाहितः। अन्येभ्यः कार्येभ्यः विमुखः अन्यकार्यविमुखः । आत्मनः लक्षणानि तैः निवेदितास्तान् आत्मलक्षणनिवेदितान् । हिन्दी-इस प्रकार वह कामी राजा काम के वशीभूत अन्य राजपाट के कार्यों को छोड़कर इन्द्रियों के सुखों का अनुभव ( आनन्द' ) लेता हुआ अपने चिह्नों से बताई गई ऋतुओं का अतिक्रमण कर गया । अर्थात् सम्भोग के लिए वह प्रत्येक ऋतु में उस उस ऋतु के अनुकूल पुष्पमालादि से शृंगार करता था । अतः उन्हीं चिह्नों से उसे ऋतु ज्ञान होता था ॥ ४७ ॥ तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः । श्रामयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥ ४८ ॥

Loading...

Page Navigation
1 ... 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412