________________
एकोनविंशः सर्गः
४९५
समासः-लग्नः सहकारः यस्मिन स तं लग्नसहकारम् । रक्तश्चासौ पाटल: रक्तपाटलः, तस्य समागमः यस्य स तं रक्तपाटलसमागमम् । मधोः निर्गमस्तस्मात् मधुनिर्गमात् । चित्तं योनि यस्य स चित्तयोनिः । .
हिन्दी-राजा अग्निवर्ण, ने आम के नए पल्लव कोमल पत्ते और लाल गुलाब के फूल ( या पाढर के अथवा लोध्र के फूल ) जिसमें पड़े थे, ऐसी मोरा देश की बनी अंगूरी शराब जो पी, तो उसके पीने से वसन्त ऋतु बीत जाने से कमजोर पड़ा हुआ उसका काम ( सम्भोग शक्ति ) फिर से भड़क उठा ॥ ४६ ॥
एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः ।
आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः ॥ ४७ ॥ एवमनङ्गवाहितः कामप्रेरितोऽन्यकार्यविमुखः स पार्थिव इन्द्रियाणां सुखानि सुखकराणि शब्दादीनि निर्विशन्ननुभवन्नात्मनो लक्षणः कुटजस्रग्धारणादिचिह्ननिवेदितान् । अयमृतुरिदानी वर्तत इति ज्ञापितान् । ऋतून्वर्षादीनत्यवाहयदगमयत् ।
अन्वयः-एवम् अनंगवाहितः अन्यकार्यविमुखः सः पार्थिवः इन्द्रियसुखानि निर्विशन् आत्मलक्षणनिवेदितान् ऋतून् अत्यवाहयत् । ___ व्याख्या एवं = पूर्वोक्तप्रकारेण नास्ति अङ्गं = शरीरमस्येति, न अङ्गं =शानमस्मावति अनंगः अनंगेन मनोभवेन वाहितः = प्रेरितः इति अनंगवाहितः अन्यानि =सम्भोगातिरिक्तानि च यानि कार्याणि =राज्यकार्याणि इति अन्यकार्याणि, तेभ्यः विमुखः = पराङ्मुखः इति अन्यकार्यविमुखः सः =अग्निवर्णः पृथिव्याः ईश्वरः पार्थिवः=राजा इन्द्रस्य = आत्मनः लिंगानि = चिह्नानि, इति इन्द्रियाणि, इन्द्रियाणां = चक्षुरादीनां सुखानि = सुखकराणि = रूपरसादीनि, इति इन्द्रियसुखानि, भोगानित्यर्थः । निर्विशन् = अनुभवन् आत्मनः= स्वस्य लिंगानि = चिह्नानि = तत्तदृतूद्भवपुष्पमालादिचिह्नानीत्यर्थः तैः निवेदिताः=विज्ञापितास्तान् आत्मलक्षणनिवेदितान् ऋतून् = वर्षादीन् षट् अत्यवाहयत् = अत्यकामयत्, अतिवाहितवानित्यर्थः । __समासः-इन्द्रियाणां सुखानीति इन्द्रियसुखानि तानि। अनंगेन वाहितः अनंगवाहितः। अन्येभ्यः कार्येभ्यः विमुखः अन्यकार्यविमुखः । आत्मनः लक्षणानि तैः निवेदितास्तान् आत्मलक्षणनिवेदितान् ।
हिन्दी-इस प्रकार वह कामी राजा काम के वशीभूत अन्य राजपाट के कार्यों को छोड़कर इन्द्रियों के सुखों का अनुभव ( आनन्द' ) लेता हुआ अपने चिह्नों से बताई गई ऋतुओं का अतिक्रमण कर गया । अर्थात् सम्भोग के लिए वह प्रत्येक ऋतु में उस उस ऋतु के अनुकूल पुष्पमालादि से शृंगार करता था । अतः उन्हीं चिह्नों से उसे ऋतु ज्ञान होता था ॥ ४७ ॥
तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः । श्रामयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥ ४८ ॥