________________
रघुवंशे
अन्वयः-दूतिसन्दर्शिताभ्यः प्रकृतिरचनाभ्यः समधिकतररूपाः शुद्धसन्तानकामैः अमात्यः आहृताः राजकन्याः यूनः तस्य प्रथमपरिगृहीते श्रीभुवौ अधिविविदुः ।
व्याख्या-दूतिभिः = संचारिकाभिः = कन्यापरीक्षार्थ प्रहिताभिरित्यर्थः। सम्यक् दर्शिताः= प्रतिज्ञापिताः इति दूतिसन्दर्शितास्ताभ्यः दूतिसन्दर्शिताभ्यः “दूतीसंचारिके समे” इत्यमरः । प्रकृष्टाः कृतयः प्रतिकृतयस्तासां प्रतिकृतीनां = तूलिकादिलिखितचित्राणां रचनाभ्यः = विन्यासेभ्यः, निर्माणेभ्य इत्यर्थः। अतिशयेन समधिकमिति समधिकतरं रूपं यासां ताः समधिकतररूपाः चित्ररचनायाः अपि अधिकरमणीया इत्यर्थः । शुद्धं = निर्दोष सन्तानं = सन्ततिं कामयन्ते = इच्छन्तीति शुद्धसन्तानकामास्तैः शुद्धसन्तानकामैः अमात्यैः = मन्त्रिभिः आहृताः=समानीताः राज्ञां = भूपालानां कन्याः = कुमार्यस्ताः राजकन्याः यूनः = तरुणस्य तस्य = सुदर्शनस्य सम्बन्धिन्यौ प्रथमं पूर्वमेव परिगृहीते = स्वीकृते, इति प्रथमपरिगृहीते श्रीः राज्यलक्ष्मीश्च भूः पृथिवी चेति श्रीभुवौ अधिविविदुः=अधिविन्ने चक्रुः । श्रीभुवौ सपन्यौ कृते कन्याभिः इत्यर्थः।
समासः-दूतिभिः सम्यक् दर्शितास्ताभ्यः दूतिसन्दर्शिताभ्यः। प्रतिकृतीनां रचनास्ताभ्यः प्रतिकृतिरचनाभ्यः। समधिकतरं रूपं यासां ताः समधिकतररूपाः। शुद्धस्य सन्तानस्य कामः येषान्ते शुद्धसन्तानकामास्तैः शुद्धसन्तानकामैः। राज्ञां कन्या राजकन्याः। प्रथमं परिगृहीते प्रथमपरिगृहीते, ते । श्रीश्च भूश्च ते श्रीभुवौ।
हिन्दी-कन्याओं को देखने जानने के लिये भेजी गई दूतियों के द्वारा अच्छी प्रकार 'चित्र लाकर' दिखाई गई, तथा उन चित्रों से भी अधिक रूपवती और 'राजकुल में' शुद्ध सन्तान की कामना करने वाले मंत्रिगण जिन्हें ले आये थे, उन राजकन्याओं ने उस नवयुवक सुदर्शन की पहले ही स्वीकृत राजलक्ष्मी तथा पृथिवी को अधिविन्ना बना दिया। अर्थात् इन दोनों को सौत बना दिया।
विशेष—जिस स्त्री के रहते हुए पति दूसरा विवाह कर ले वह स्त्रो अधिविन्ना ( सौतवाली ) कहाती हैं ॥ ५३॥ इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविरचितायां "छात्रोपयोगिनी" व्याख्यायां
रघुवंशे महाकाव्ये वंशानुक्रमो नामाष्टादशः सर्गः ॥